2026-03-05 04:33:02 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९३
अवभ्राजदित्यादि - ततोऽनन्तरं त्रिशिराः कुमारः पवनात्मजविपये शक्तिं
वीर्यमबभ्राजत् दीपयति स्म । '२५६५ ॥ भ्राज - । ७।४।३।' इत्यादिना इस्वाभाव-
पक्षे रूपम् । तस्य वाजिनो रथयुक्ता रणे हनूमता हताः सन्तः अमृपत मृताः ।
'२५३८। म्रियतेर्लुङ्–।१३।६१।' इति तङ् ॥
१२६५–अस्रसच् चा ऽऽहतो मूर्ध्नि,
खनं चा ऽजीहरद् द्विषा, ॥
प्राणानौज्झीच् च खड्डेन
छिन्नैस् तेनैव मूर्धभिः ॥ ८४ ॥
अस्त्रसदित्यादि - त्रिशिराश्च हनूमता मूर्ध्नि हतः सन् रथाद्भूमौ अस्वसत्
रथाद्भूमौ स्रस्तः '२३४५ । चुच्चो लुङि । १।३।११।' इति परस्मैपदम् । श्रुतादि-
त्वादङ् क्ङिति इत्यनुनासिकलोपः । स्रस्तश्च स खङ्गं हस्तस्थं द्विपा हनूमता
अजीहरत हारितवान् । तेनैव च खङ्गेन छिन्नैर्मूर्धभिर्हेतुभूतैः प्राणानौज्झीत् त्यक्त-
वान् । '१३८८ । उज्झ उत्सर्गे' ॥
युग्मम् -
१२६६ - मत्तेना मारि संप्राप्य शरभाऽस्तां महा- गदाम्, ॥
सहस्र-हरिणा ऽक्रीडीर्दतिकायस् ततो रणे. ॥ ८५ ॥
मत्तेनेत्यादि - शरभेण वानरेणास्तां क्षिप्तां महागदां प्राप्य मत्तेन सुतानां
रक्षार्थं प्रेपितेन राक्षसेनामारि मृतम् । भावे लुङ् । ततो ऽनन्तरं अतिकायो राजपुत्रो
रणे अक्रीडीत् विहरति स्म । रथेनेति वक्ष्यति । सहस्रं हरयो ऽश्वा यस्य रथस्य ॥
१२६७ - रथेना ऽविव्यथच् चाऽरीन्,
व्यचारीच् च नि-रङ्कुशः, ॥
विभीषणेन सो ऽख्यायि
राघवस्य महा-रथः ॥ ८६ ॥
रथेनेत्यादि —अरींश्चाविव्यथत् पीडितवान् । व्यथेर्ण्यन्तस्य चङि रूपम् ।
निरङ्कुशश्चाप्रतिहतशक्तिर्व्यचारीत् भ्राम्यति स्म । रान्तत्वाद्वृद्धिः । स विचरन्म-
हारथः विभीषणेन राघवस्य आख्यायि कथितः । कर्मणि लुङ् ॥
१२६८–'अतस्तम्भद॑यं वज्रं, स्वयम्भुवम॑तू॒तुषत् ॥
"
अशिक्षिष्ट महाऽस्त्राणि, रणेऽरक्षीच् च राक्षसान् . ८७
अतस्तम्भदित्यादि - अयं स्वशक्त्या वज्रं अतस्तम्भत् स्तम्भितवान् । '४४३ ॥
स्तभि स्कभि प्रतिष्टम्भे ।' ण्यन्तस्य '२३१२ । णि श्रि - १३ । १।४८ ।' इत्यादिना
चङ् । स्वयम्भुवमतूतुपत् । उग्रेण तपसा आराधनात् तोपितवान् । '१२६० ॥