2026-03-05 04:33:02 by ambuda-bot
This page has not been fully proofread.
३९२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
'१६९३। तड आघाते' । ताडनं ताडः । '३१८४ । भावे ।३।३।१८ । ' घञ् । ताडं
करोतीति णिच् । णाविष्टवदिति टिलोपः । '२३१४। णौ चङयुपधायाः । ७।४।११
इति '२५७२। नाग्लोपिशास्वृदिताम् ।७।४।२।' इति हस्वप्रतिषेधः । स च राव-
णिरव्यथो व्यथारहितः । हताश्वाद्रथादवतीर्य महीं गतः सन् योद्धुमारब्ध आर-
भते स्म । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । घत्वं च ॥
१२६०– तस्या ऽहारिषत प्राणा मुष्टिना वालि-सूनुना ॥
प्रादुद्रुवंस्ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्. ॥७९॥
तस्येत्यादि - तस्य प्राणाः वालिपुत्रेण अहारिषत हृताः कर्मणि लुङ् ।
चिण्वद्भावः । ततो ऽनन्तरं सर्वे रावणयः रावणस्यापत्यानि देवान्ताकादयः क्रुद्धाः
सन्तो ऽङ्गदं प्रादुडुवन् गतवन्तः । '२३१२। णि-नि- १३।१।४८।' इत्यादिना चङ् ॥
१२६१- ततो नील-हनूमन्तौ रावणीन॑व॒वेष्टताम् ॥
"
अकारिष्टां गिरींस् तुङ्गार्नरौत्सीत् त्रिशिराः शरैः ८०
तत इत्यादि - ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनूमांश्चावचेष्टतां
वेष्टितवन्तौ। '२५८३। विभाषा चेष्टि-चेष्टयोः ।७।४।९६।' इत्यभ्यासस्यात्वम् ।
गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । '१५०३। कृ विक्षेपे' । सिचि वृद्धिः । तांश्च गिरी -
निक्षिप्तान् त्रिशिराः शरैस्तुङ्गानरौत्सीत् आवृतवान् । '१५३२। रुधिर् आवरणे ॥
१२६२ - परिघेणा वधिष्टा ऽथ रणे देवान्तको वली, ॥
मुष्टिना sददरत् तस्य मूर्धानं मारुताऽऽत्मजः . ८१
परिघेणेत्यादि - अथ देवान्तको बली परिघेणावधिष्ट हतवान् । '२६९५ ।
आङो यम-हनः । १।३।२८।' इति तङ् । अविवक्षितकर्मकत्वात् ' २६९६। आत्म-
नेपदेष्वन्यतरस्याम् ।२।४।४४ । ' इति हनो वधादेशः । तस्य नतो मूर्धानं मारु-
तात्मजः मुष्टिना अददरत् दारितवान् । '१५८८। दृ विदारणे' ण्यन्तस्य चङ्परे
णौ '२५६६।अत् स्मृ-हृ-स्वर - ।७।४।१५।' इत्यादिनाभ्यासस्यात्वम् ॥
१२६३ - अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः ॥
युद्धोन्मत्तस्, तु नीलेन गिरिणाsनायि संक्षयम्. ८२
अदीदिपदित्यादि - ततो देवान्तकविनाशादनन्तरं युद्धोन्मत्तः सुतानां
रक्षार्थं यः प्रेषितः स वीर्यमदीदिपत् । '२५६५ । भ्राजभास - ।७।४।३।' इत्यादिना
हस्त्राभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । हंस्वाभावपक्षे रूपम् ।
अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । '१६५३ । पृ पूरणे' इति चुरादिः ।
स तु नीलेन संक्षयं गिरिणा अनायि नीतः । कर्मणि लुङ् ॥
१२६४-अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, ॥
हनूमता क्षतास् तस्य रणेऽमृषत वाजिनः ॥ ८३ ॥