2026-03-05 04:33:02 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९१
१२५४ - कथं न्व॑जीविषुस् ते च स चा ऽमृत महा-वल : . ' ॥
अयुयुत्सिषता ssश्वास्य कुमारा रावणं ततः ॥७३॥
कथमित्यादि - ते ऽल्पाः कथं नाम अजीविपुः जीविताः । स च कुम्भ-
कर्णो महाबलः अमृत मृतः । ' २५३८ । म्रियतेर्लुङ्-लिङोश्च । १।३।६१।' इति तङ्
'२३६९। हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । अनन्तरं कुमाराः राजपुत्रा
देवान्तकादयो रावणं शोचन्तमाश्वास्य अपनीतशोकं कृत्वा अयुयुत्सिपत योद्धुमि-
ष्टवन्तः । '२६१३। हलन्ताच्च । १।२।१०।' इति सनः कित्त्वम् । '२७३४ । पूर्वव-
सनः ।१।३।६२।' इति तङ् ॥
१२५५ - देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकः ॥
ते चांssहिषत संग्रामं बलिनो रावणाऽऽत्मजाः ७४
देवान्तक इत्यादि - ते च रावणात्मजाः संग्राममांहिषत गतवन्तः ।' ६७८
अहि गतौ' किंनामानः । देवान्तकः अतिकायः त्रिशिराः नरान्तक इति ॥
१२५६–युद्धोन्मत्तं च मत्तं च राजा रक्षऽर्थमा॑ञ्जहत् ॥
युतानां, निरगातां तौ राक्षसौ रण- पण्डितौ ॥ ७५ ॥
युद्धेत्यादि - सुतानां रक्षार्थं राजा युद्धोन्मत्तं मत्तं च राक्षसं आजिहत्
प्रस्थापितवान् । अहंतेण चङ्परे द्वितीयाद्विर्वचनम् । तौ राक्षसौ रणपण्डितौ
निरगातां निर्गतौ । '२४५८ । इणो गा लुङि । २।४।४५॥ ॥
१२५७ - तैरजेषत सैन्यानि द्विषो ऽकारिषता ऽऽकुलाः ॥
पर्वतानिव ते भूमाव॑चैषुर् वानरोत्तमान् ॥ ७६ ॥
तैरित्यादि — तैः राक्षसैः सैन्यानि अजेपत जितानि । कर्मणि लुङ् । अचि-
ग्वद्भावपक्षे रूपम् । द्विप आकुला अकारिपत । ते राक्षसा वानरोत्तमान् वान-
राणां प्रधानभूतान् पर्वतानिव भूमौ अचैपुः पुञ्जीकृतवन्तः । 'चिन् चयने' ॥
१२५८-अङ्गदेन समं योद्धुम॑घटिष्ट नरान्तकः, ॥
प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीद॑ङ्गदा॑रसि ॥७७॥৷
-
अङ्गदेनेत्यादि — नरान्तकः कुमारः अङ्गदेन सह योद्धुमघटिष्ट घटते स्म ।
राक्षसः प्रासं कुन्तं प्रैपिषत् । 'इषु गतौ' इत्यस्य ण्यन्तस्य चङि रूपम् । स प्रासो-
ऽङ्गदोरसि अस्फोटीत् विशीर्णः ॥
१२५९-अश्वान् वालि-सुतो ऽहिंसीद॑तताडच् च मुष्टिना ॥
रावणिश् चा ऽन्यथो योद्धुमारब्ध च महीं गतः ॥७८॥
अभ्वानित्यादि - चालिसुतो ऽश्वान् रथयुक्तानहिंसीत् व्यापादितवान् ।
'१५४९ । तृह हिसि हिंसायाम्' । मुष्टिना पाणिना अतताडत् आहतवान्