This page has not been fully proofread.

३९० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
अपक्षातां सहस्रे द्वे
 
तद्-देहेन वनौकसाम् ॥ ६९ ॥
 
ऐन्द्रेणेत्यादि – ऐन्द्रेण शरेण हृदये ऽव्यात्सीत् विद्धवान् । स तथा हतो
गामध्यवात्सीत् भूमिमध्युषितवान् । तस्य पततो देहेन वनौकसां वानराणां द्वे
सहस्रे अपिक्षातां चूर्णिते । '१५४६ । पिपु संचूर्णने' । कर्मणि लुङ् ॥
 
१२५१ – अस्ताविषुः सुरा रामं दिशः प्रापन् निशाचराः, ॥
 
"
 
भूर॑कम्पिष्ट सा॒ऽद्वी॒न्द्रा, व्यचालीदम्भसां पतिः. ७०
 
अस्ताविषुरित्यादि - तस्मिन् हते सुरा देवा राममस्ताविषुः स्तुवन्ति स्म
1'२३८५॥ स्तु-सु-धूब्र्भ्यः परस्मैपदेषु । ७ २७२ ॥ इतीद । निशाचरास्तद्भयाद्दिशः
प्रापन् प्राप्तवन्तः । '१३४१। आप्त व्याप्तौ ।' साड्रीन्द्रा सकुलपर्वता भूमिरकम्पिष्ट
चलति स्म । अम्भसां पतिः समुद्रो व्यचालीत् प्रक्षुभितवान् ॥
 
१२५२-हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्, ॥
 
अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम् ॥
 
हतमित्यादि - हतं व्यापादितं कुम्भकर्ण रक्षांसि राजानं रावणमशिश्रवन्
श्रावितवन्तः । शृणोतेर्ण्यन्तात् सनीव कार्यमिति '२५७८ । स्रवति - शृणोति
-।७।४।८११' इत्यादिना अभ्यासस्य विकल्पेनेट् । एवं च कृत्वा अशुश्रुवन्निति
पाठान्तरम् । द्विकर्मकता तु बुद्ध्यर्थत्वात् श्रुत्वा च रावणो ऽरोदीत् अश्रूणि
मुमोच । अशोचीत् शोचति स्म । 'तेनापि त्यक्तो ऽस्मि' इति । परं च मोहं
मूर्च्छामशिश्रियत् । '९६३। श्रिञ् सेवायाम्' । '२३१२ णि श्रि - । ३ । ११४८
इत्यादिना चङ् ॥
 
युग्मम्-
 
१२५३-अपप्रथद् गुणान् भ्रातुर॑चिकीर्तच् च विक्रमम्, ॥
'क्रुद्धेन कुम्भकर्णेन ये ऽदर्शिषत शत्रवः, ॥ ७२ ॥
 
अपप्रथदित्यादि - भ्रातुर्गुणान् बुद्धिमत्त्वादीनपप्रथत् प्रख्यापितवान्।' ८१८
प्रथ प्रख्याने' घटादिः। तस्मात् ण्यन्ताच्चङि '२५६६। अत् स्मृ-हृ-स्वर -1७४९५'
इत्यादिना ऽत्वम् । विक्रमं च शौर्यमचिकीर्तत् उदीरितवान् । '१७७५॥ कृत
संशब्दने' इति चौरादिकः '२५८९। जिघ्रतेर्वा । ७।४।६।' इत्यधिकृत्य ' २५६७ /
उर्ऋत् ।७।४।७। इति इकाराभावपक्षे रूपम् । '२५७१ । उपधायाश्च ।७।१।१०१
इतीत्वम् । विक्रमकीर्तनं चाह- क्रुद्धेन क्रोधकत्र कुम्भकर्णेन ये शत्रवोऽदर्शि
पत दृष्टाः। कर्मणि लुङ्।'२७५७।स्य सिच् । ७१४६२ ।' इत्यादिना दृशेश्चिण्वदि ॥