This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३८९
 
संत्रस्तानामित्यादि - तेन सत्त्वमपाहारि अपहृतम् । सर्वेषां त्रस्तत्वात् ।
कर्मणि लुङ् । लक्ष्मणेन अस्य किरीटं मुकुटं तथा कवचमच्छेदि छिन्नम् । कर्मणि
 
लुङ् ॥
 
युग्मम्-
 
१२४६ - अभेदि च शरैर् देहः प्राशंसीत् तं निशाचरः, ॥
 
अस्पर्धिष्ट च रामेण तेना ऽस्याऽक्षिप्सते॑षवः, ६५
 
"
 
अभेदीत्यादि - देहश्वास्य शरैः करणभूतैरभेदि छिन्नः । निशाचरश्च तं
लक्ष्मणं प्राशंसीत् स्तुतवान् । 'साधु भवता युद्धम्' इति । रामेण सहास्पर्धिष्ट
योद्धुं स्पर्धते स्म । तेन रामेणास्य इषवः अक्षिप्त क्षिप्ताः । कर्मणि लुङ् ।
हलन्तादात्मनेपदे सिचः किश्वाद्गुणाभावः ॥
१२४७ - यैरघानि खरो, वाली, मारीचो, दूषणस् तथा ॥
 
अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.६६
यैरित्यादि — यैः शरैश्च खरो ऽघानि व्यापादितः । कर्मणि लुङ् । ते अक्षि-
प्सतेति योज्यम् । स कुम्भकर्णस्तान् मन् दर्पादवामंस्त अवमन्यते स्म । मुद्गरं
प्रोदयंसीत् उद्द्भूर्णवान् । '२३७७। यम-रम- ।७।२।७३।' इति सगिटौ ॥
.१२४८ - वायव्याऽस्त्रेण तं पाणि
 
रामो ऽच्छैत्सीत् सहाऽऽयुधम्, ॥
 
अदीपि तरु- हस्ती Sसा-
 
वृ॑धावीच् चा ऽरि-संमुखम् ॥ ६७ ॥
 
वायव्यास्त्रेणेत्यादि - येन पाणिना मुद्गरमुदयंसीत् पाणि सहायुधं रामो
वायव्यास्त्रेण मरुद्देवतादत्तेन अच्छेत्सीत् । छिन्नपाणिश्चासौ तरुहस्तः तरुर्हस्ते
यस्येति तरोः प्रहरणत्वात् सप्तम्यन्तस्य परनिपातः । अदीपि दीप्यते स्म । '२३२८।
दीप- जन - । ३।१।६११' इत्यादिना कर्तरि चिण् । अरिसंमुखं च रामाभिमुखमधा-
वीत् वेगेन गतवान् ॥
 
१२४९ - स- वृक्षम॑च्छिदत् तस्य शक्राऽस्त्रेण करं नृपः ॥
 
जंघे चा ऽशीशतद् वाणैर॑प्रासीदि॑षुभिर् मुखम् . ६८
सवृक्षमित्यादि-
 
-तस्य सवृक्षमपि करं नृपः शक्रास्त्रेणाच्छिदत् । '२२६९ ।
इरितो वा । ३।१।५७१' इत्यङ् । जङ्घे चान्यैर्बाणैरशीशतत् । गमनासमर्थे कृत-
वान् । शदेण '२५९८। शदेरगतौ ।७।३।४२।' इति तत्वम् । मुखं चेषुभिरप्रा-
सीत् पूरितवान् । '११३५ । प्रा पूरणे' ॥
 
१२५० - ऐन्द्रेण हृदये ऽव्यात्सीत्,
 
सो ऽध्यवात्सीच् च गां हतः ॥