2026-03-05 04:33:01 by ambuda-bot
This page has not been fully proofread.
३८८ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
अभ्यासस्य अत्वम् । राघवौ च योद्धुमचचेष्टत् व्यापारयति स्म । '२५८३। वि-
भाषा वेष्टि-चेष्टयोः । ७।४।९६ । ' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो योद्धुं
न्यवर्तिष्ट निवृत्तः । वृतिर्युतादिः । '२३४५॥ द्युचः - १।३।९११' इत्यादिनात्म-
नेपदे नाङ् । वानराश्चायुत्सन्त युध्यन्ते स्म ॥
१२४२- अविवेष्टन् नृपाऽऽदेशादा॑रुक्षंश् चाऽऽशु राक्षसम् ॥
तान॑धावीत् समारूढांस् तेऽप्य॑स्रंसिषता ऽऽकुलाः ॥
अविवेष्टन्नित्यादि- - वानरा राक्षसमविवेष्टन् वेष्टयन्ति स्म । अत्र राम
इत्यर्थाद्द्रष्टव्यम् । यतस्तदादेशादाशु ते राक्षसमारुक्षन् आरूढाः । रुहः '२३३६॥
शल इगुपधात् ।३।१।४५।' इत्यादिना क्सः । वानरा एव नृपादेशादविवेष्टन्निति
व्याख्याने स्वातन्त्र्येण तेषां कर्तृत्वात्प्रयोजकत्वं न घटते । तांश्च वानरानारूढान्
कुम्भकर्णो ऽधावीत् धूतवान् । '२२७९ । स्वरति - । ७।२।४४ ।' इत्यादिना इट् ।
हलवृद्धेः '२२६८। नेटि । ७।१।४।' इति प्रतिषेधः । ते व्याकुलाः सन्तोऽस्रंसिपत
त्रस्ताः पतिता इत्यर्थः । '८०६ । स्रंसु भ्रंशु च संसने' द्युतादिः । परस्मैपदाभा-
वान्नाङ् ॥
१२४३ - अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्-दयम्. ॥
ते चाऽप्य॑घोरिषुर् घोरं रक्तं चा ऽवमिषुर् मुखैः. ६२
"
अग्रसिष्टेत्यादि — कुम्भकर्णः कांश्चिदग्रसिष्ट प्रसते स्म । कांश्चिन्निर्दयं समा-
लिक्षत् । '१२६२ । लिप आलिङ्गने' । '२३३६। शलः - । ३।१।४५१' इति क्सः ।
ते चाश्लिष्टाः महाघोरं श्रुतिकटुकं अघोरिपुः शब्दमुक्तवन्तः । '१४३३। घुर
भीमार्थ- शब्दयोः' इति तुदादिरनुदात्तेत् । रक्तं चावमिपुः उद्गीर्णवन्तः ॥
१२४४-स चा ऽपि रुधिरैर् मत्तः स्वेषाम॑प्य॑दयिष्ट न ॥
अग्रहीच् चा ऽऽयुर॑न्येषाम॑रुद्ध च पराक्रमम् ॥६३॥
स चेत्यादि - स चापि कुम्भकर्णः रुधिरैर्मत्तः स्वेपामपि नादयिष्ट न दयां
कृतवान्, किमपरेषाम्। '६१३। अधीगर्थ - । २।३।५२।' इति षष्ठी । अन्येषां वान-
राणां आयुर्जीवितमग्रहीत् गृहीतवान् । '२२९९ । ह्रयन्त-।७।२।५।' इति न वृद्धिः
। 'अदोहीवाऽऽयुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्ण दृष्टवतामन्येषा-
मायुरदोहीव स्वयं गतमिव । '२७६९। दुहश्च । ३।१।६३।' इति कर्मकर्तरि चिण् ।
पराक्रमं चान्येषामरुद्ध च आवृतवान् । रुधेः कर्माभिप्राये तङ् । '२२८१ । झलो
झलि । ८।२।२६।' । इति सिचो लोपः । '२२८०। झषस्तथोर्धोऽधः । ८।२।४०।
'५२ । झलां जश् झशि ।८।४।५३ ॥ ॥
१२४५ - संत्रस्तानाम॑पाहारि सत्त्वं च वनवासिनाम्, ॥
अच्छेदि लक्ष्मणेना ऽस्य किरीटं कवचं तथा ॥६४॥