2026-03-05 04:33:01 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः – ३८७
1
पदम् । अस्य शोणितं च व्यसुस्रुवत् स्रुतम् । '२३१२। णि- श्रि - । ३। १ । ४८ । '
इत्यादिना चङ् । तं सुग्रीवमादाय राक्षसः कुम्भकर्णः पलायिष्ट पलायते स्म ।
व्यरोचिष्ट रोचते स्म । '७९७ रुच दीप्ती' ॥
युग्मम् -
१२३८ - अभैषुः कपयो, ऽन्वारत् कुम्भकर्ण मरुत्सुतः, ॥
शनैरवोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण-नासिकम् ५७
. अभैषुरित्यादि - तस्मिन्नीते कपयो ऽभैपुः भीताः मरुत्सुतः कुम्भकर्णमन्वा-
रत् अनुगतः। अर्तेः '२३८२। सर्ति-शास्त्यर्तिभ्यश्च । ३।१।५६ ।' इत्यङ् । '२४०६।
ऋदृशो ऽङि गुणः ।७।४।१६ ।' । सुग्रीवः शनैर्मनागबोधि लब्धसंज्ञो वभूव ।
'२३२८ । दीप- जन - । ३।११६१ ।' इत्यादिना बुधेः कर्तरि चिण् । स बुद्धः कर्णना-
सिकम् । प्राण्यङ्गत्वादेकवद्भावः । अस्यालुञ्चीत् कृत्तवान् । राक्षसस्येति वक्ष्यमा -
णेन सम्बन्धः ॥
१२३९–राक्षसस्य, न चा ऽत्रासीत्, प्रनष्टुमंयतिष्ट च ॥
अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ ॥५८॥
राक्षसस्येत्यादि - राक्षसस्य कुम्भकर्णस्य सम्बन्धे स सुग्रीवो न चात्रासीत्
न त्रस्तः । राक्षसात् प्रनष्टुं पलायितुम् । '२५१७ । मस्जि-नशोर्झलि । ७।१६०'
इति नुम् । अयतिष्ट च यतते स्म । कुम्भकर्णेनात्मनो ऽवस्थां दृष्ट्वा अक्रोधि
क्रुद्धम् । भावे लुङ् । क्षितौ च पेष्टुं चूर्णयितुं सुग्रीव आरम्भि आरब्धः । कर्मणि
लुङ् । '२५८१। रभेरशब्लिटोः । ७।१।६३।' इति नुम् ॥
१२४० - सुग्रीवो ऽस्या स्वशर्द्धस्तात्,
समगाहिष्ट चा डम्बरम्, ॥
तूर्णम॑न्वसृपद् राम-
मा॑न॒न॒न्दच् च वानरान्. ॥ ५९ ॥
सुग्रीव इत्यादि - अस्य कुम्भकर्णस्य हस्तात् सुग्रीवः अभ्रशत् भ्रष्टः ।
'१३०४ । भ्रशु भ्रंशु अधःपतने' पुषादिः । स चाम्बरमाकाशमगाहिष्ट आक्रान्त-
वान् । '६९६। गाहू विलोडने' अनुदात्तेत् । तूर्णं च राममन्वसृपत् अनुगतः ।
ऌदित्वादङ् । वानरांश्च कर्ण-नासिककर्तनेनानन्दत् तोपितवान् । नन्दतेर्ण्य-
न्तस्य रूपम् ॥
१२४१-अतत्वरच् च तान् योद्धुम॑चिचेष्टच् च राघवौ. ॥
कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः ॥६०॥
अतत्वरदित्यादि - तांश्च वानरान् योद्धुमतत्वरत् त्वरयति स्म । 'मा चिल-
म्बध्वम्' इति । त्वरेर्ण्यन्ताच्च । '२५६६ । अत् स्मृ-हु- स्वर - 1७1४1९५१' इति