This page has not been fully proofread.

३८६ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
न्तस्य रूपम् । तं द्रुमं प्राप्तमरिः कुम्भकर्णः प्रासहिष्ट प्रसहते स्म । शक्तिं चोग्रां
प्राणहरामुदग्रहीत् उद्गृहीतवान् ॥
१२३४ – स ताम॑विभ्रमद् भीमां,
वानरेन्द्रस्य चा ऽमुचत्. ॥
प्रापतन् मारुतिस् तत्र
 
तां चा ऽलासीद् वियद्-गताम् ॥ ५३ ॥
 
स तामित्यादि - तां गृहीतां शक्तिं स कुम्भकर्णः अविभ्रमत् भ्रमयति स्म ।
भ्रमेर्ण्यन्ताच्चङि रूपम्। वानरेन्द्रस्य सुग्रीवस्योपरि अमुचत् मुक्तवान् । लुदित्वा-
दङ् । तत्र तस्यां मुक्तायां मारुतिर्हनूमान् प्रापतत् प्रत्युपस्थितः । लुदित्त्वादङ् ।
'२३५५। पंतः पुम् ।७।४।१९' इति पुमागमः । तां च वियद्गतामलासीत् आप्त-
वान् । '११३२ । ला आदाने ।' '२३७७॥ यम-रम- १७१२७३॥ इति सगिट ॥
 
युग्मम्-
 
१२३५- अशोभिष्टाऽचखण्डच् च
 
शक्तिं वीरो, न चा ऽयसत्. ॥
लौह-भार-सहस्रेण
 
निर्मिता निरकारि मे ॥ ५४ ॥
 
" अशोभिष्टेत्यादि - असौ गृहीतशक्तिर्वीरः अशोभिष्ट शोभते स्म । शक्तिम-
चखण्डच्च भग्नवान् । '१६९४ ९५ । खड खडि भेदने' चौरादिकः । तां च खण्ड-
यन्नायसत् नायस्यति स्म । '१२८६। यसु प्रयत्ने ।' पुषादिः । लौहभारसहस्रेण
निर्मिता घटिता मम शक्तिर्निरकारि भग्ना अनेनेति रक्षः कुम्भकर्णो ऽकुपदिति
वक्ष्यमाणेन सम्बन्धः ॥
 
१२३६ – शक्तिर॑त्य॑क॒पद् रक्षो, गिरिं चौदखनीद् गुरुम्, ॥
 
व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूच्छदसौ क्षतः. ॥५५॥
शक्तिरित्यादि - अकुपत् कुपितः ' १३१२ । कुपं क्रोधे' पुषादिः । गिरिं च
गुरुमुदखनीत् उत्खातवान् । '२२८४। अतो हलादेर्लघोः । ७।२।७।' इति वृद्ध्य-
भावपक्षे रूपम् । कपीन्द्रस्य सुग्रीवस्योपरि तं च गिरिं व्यसृष्ट विसृष्टवान् ।
'सृज विसर्गे'अनुदात्तेत्। तस्माद्धलन्तादात्मनेपदे सिचः कित्त्वे गुणाभावः । असौ
कपीन्द्रस्तेन क्षतः हतः सन् अमूच्छत् मोहमुपगतः ॥
 
१२३७- अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत्,
 
तमा॑दायाऽपलायिष्ट, व्यरोचिष्ट च. राक्षसः ॥ ५६॥
अलोठिष्टेत्यादि — मूर्च्छितश्च भूपृष्ठे अलोठिष्ट लुठते स्म । 'रुठ लुठ प्रतिघाते।'
इति श्रुतादिः । '२३४५। युच्यो लुङि । १।३।९१।' इति परस्मैपदविकल्पेनात्मने-
 
11