2026-03-05 04:33:00 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः– ३८५
वान् । स्तृणातेणौं चङि रूपम् । '२५६६। अत् स्मृ-हृ-त्वर- ।७।४।१५।' इत्यादिना
अत्वम् । तांश्च भक्षयन्नपि क्रूरः नातासीत् न तृप्तः । '१२७१। तृप प्रीणने '
पुषादिः 'स्पृश- मृश- कृप-तृप-हपां च्लेः सिज्वा' इति पक्षे सिच् । प्लवङ्गमांश्च
घ्नन् हिंसन् नाश्रमत् न श्रान्तवान् । '१२८० । श्रमु तपसि खेदे च' इति खेदे
पुषादित्वादङ् ॥
१२३० - न योद्धुर्मशकन् केचिन, ना ऽढौकिषत केचन ॥
प्राणशन् नासिकाभ्यां च वक्रेण च वनौकसः ॥४९॥
न योद्धमित्यादि - तेषां मध्ये केचिद्वनौकसो वानरा योद्धुं नाशकन् न
शक्ता अभवन् । लुदित्त्वादङ् । केचिन्नाढौकिषत न ढौकन्ते स्म । ये तु तेन पढ़ेन
क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः निःसृता
इत्यर्थः । नशेः पुषादित्वादङ् । '२२८७। उपसर्गात् ।८।४।१४।' इत्यादिना
त्वम् ॥
१२३१ – उदरे चा ऽजरन्न॒न्ये तस्य पाताल-सन्निभे, ॥
आक्रन्दिषुः सखीना॑ह्वन्, प्रपलायिषताऽस्विदन्. ५०
う
उदरे चेत्यादि - अन्ये च तस्योदरे पातालसन्निभे सदृशे अजरन्
जीर्णाः । '२२९१। जृ-स्तम्भु --।३।१।५८१' इत्यादिना ङ् । '२४०६ । ऋदृशो ऽङि
गुणः । ७।४।१६।' आक्रन्दिपुः आक्रन्दितवन्तः । सखीन् मित्राणि आह्वन् आहूत-
वन्तः । ' २४१८। लिपिसिचि - १३।१।५३।' इत्यादिनाङ् । प्रपलायिपत प्रपला-
यन्ते स्म । पलायमानाश्चास्विदन् प्रस्विन्नाः । पुषादित्वादङ् ॥
युग्मम्-
१२३२ - रक्तम॑श्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्, ॥
उपास्थायि नृपो भग्र॒सौ सुग्रीवमैजिहत् ॥ ५१ ॥
रक्तमित्यादि — अन्ये क्षुण्णाः सन्तः रक्तमध्योतिपुः श्योतन्ति स्म । '२२६९ ॥
इरितो वा । ३।१।५७१' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता अतृपन् तृपन्ति -
स्म । '१३०७ । जितृषा पिपासायाम् ।' पुषादित्वादङ् । नृपो रामस्तैर्भग्नैरुपस्थायि
उपस्थापितः । अन्तर्भावितो ण्यर्थः । कर्मणि चिण् । असौ रामः सुग्रीवमैजिहत्
योद्धुमीहां कारितवान् । ईहतेर्ण्यन्ताच्चङि '२२४३॥ द्विर्वचने ऽचि । १।१।५९ । '
इति स्थानिवद्भावात् द्वितीयस्य द्विर्वचनम् । आट् । वृद्धिः । योद्धुमिति चक्ष्य-
-माणेन योज्यम् ॥
१२३३ - योद्धुं सो ऽप्य॑रुषच्छत्रोरैरिरच् च महाद्रुमम् ॥
तं प्राप्तं नासहिष्टाऽरिः, शक्तिं चौग्रामु॑दग्रहीत्. ॥५२॥
योद्धुमित्यादि - सोऽपि सुग्रीवः अरुपत् क्रुध्यति स्म । '१७९८ । रुप रोपे'
पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । '१९४७ । ईर क्षेपे' इति स्वार्थिकण्य-
३३