This page has not been fully proofread.

३८४ भट्टिकाव्ये – चतुर्थे प्रसन्न -काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
-
 
१२२५- ऋषभो ऽद्रनु॑दक्षैप्सीत्, ते तैर॑रिम॑त॒र्दिषुः ॥
 
अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः ॥
 
ऋषभ इत्यादि - ऋपभो नाम कपिरदीनुदक्षैप्सीत् उत्क्षिप्तवान् । ते शरभा-
दयस्तैर्वृक्षादिभिररिमतर्दिषुः हतवन्तः । ५९॥ तर्द हिंसायाम् ।' गन्धमादनो
नाम कपिरस्फूर्जीत् वज्रमिव । गिरिशृङ्गं च व्यस्राक्षीत् विसृष्टवान् । सृजिस्तौ -
दादिक उदात्तेत् ॥
 
१२२६-अकूर्दिष्ट, व्यकारीच् च गवाक्षो भून्धरान् बहून्. ॥
 
-
 
स तान् ना ऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न ॥
अकूर्दिष्टेत्यादि — गवाक्षो नाम कपिः अकूर्दिष्ट क्रीडापूर्वकं चेष्टम
भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभा-
दीन् नाजीगणत् न गणयामास । अजगणदिति पाठान्तरम् । तत्र चकारेणात्वम-
प्यनुवर्तते । न चाव्यथिष्ट व्यथितोऽभूत् ॥
 
१२२७ – अमन्थीच् च परा॒ऽनीकमृ॑प्लोष्ट च निरङ्कुशः, ॥
 
निहन्तुं चा ऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कर्मागतान्॥
अमन्थीदित्यादि - परानीकं शत्रुसैन्यममन्थीत् क्षोभितवान् 'मन्थ विलो-
डने ।' निरङ्कुशश्चाप्रतिहतशक्तिः अप्लोष्ट भ्रान्तवान् । '१०२६ । लुङ् गतौ' । अरींश्च
वानरान्निहन्तुमत्वरिष्ट त्वरते स्म । '८३१ । जित्वरा संभ्रमे ।' अङ्कं च समीपमाग-
तानजक्षीत् भक्षितवान् । '११४५ । जक्ष भक्ष - हसनयोः ' । इति भक्षणे जक्षिः ॥
१२२८-व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति ॥
 
हस्ताभ्यां नश्यर्दक्राक्षीद्, भीमे चौपाधिताऽऽनने. ४७
 
व्यक्रुक्षदित्यादि - तस्मिन्नायत्यागच्छति सति, आङ्पूर्वस्येणः शतरि रूपम् ।
वानरानीकं व्यक्रुक्षत् विक्रोशति स्म । '२३३६ । शल इगुपधादनिटः क्सः ।
।३।१।४५।' संपलायिष्ट पलायते स्म । तच्च नश्यत्पलायमानं हस्ताभ्यामक्राक्षीत्
आकृष्टवान् कुम्भकर्णः । 'कृष विलेखने' ।' २४०२। अनुदात्तस्य च - 1६ ११५९।'
इत्यम् । हलन्तलक्षणा वृद्धिः । आकृष्टं चातिभीमे ऽतिभयङ्करे विकृते आनने
वक्रे उपाधित न्यस्तवान् धान् । '२३८९। स्था- घ्वोरिच्च ।१।२।१७।' ॥
 
१२२९-रक्तेना ऽचिक्किदद् भूमि,
सैन्यैश् चा ऽतस्तरर्द्धतैः, ॥
 
ना sताप्सीद् भक्षयन् क्रूरो,
 
ना श्रमद् घ्नन् प्लवङ्गमान ॥ ४८ ॥
 
=
 
रक्तेनेत्यादि - वानरानीकस्य रक्तेन भूमिमचिक्किदत् क्लेदितवान् । '१३२१॥
क्लिदू आर्द्रीभावे । तस्य ण्यन्तस्य चङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तरत् छादित-