This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः– ३८३
 
ग्रहरणायेत्यर्थात् । '९२६ । प्रोथ पर्याप्तौ ।' पर्याप्तियोगे चतुर्थी । न भविष्यति
पर्याप्तेरविवक्षितत्वात् । अतो ऽस्मादेवंविधात् कुम्भकर्णात् युवां नृपात्मजौ मा न
भैष्टं किन्तु विभीतम् । '२२१९। माङि लुङ् ।३।३।१७५।' । मध्यमपुरुषद्विवचने
रूपम् । माशब्दः प्रतिषेधे ॥
 
१२२२-घ्नन्तं मपेक्षिषाथां च, मा न का॒ष्ट॑मि॑हाऽऽदरम्. ॥
 
'अमुं मा न वधिष्ठे' ति रामोऽवादीत् ततः कपीन् ४१
 
घ्नन्तमित्यादि - तस्मात् घ्नन्तमेनं युवां मोपेक्षिपाथां मोपेक्षकौ भूतमि-
त्यर्थः । इह च कुम्भकर्णे आदरं मा न काष्टं अपि तु कुरुतम् । ततो विभीषणव-
चनानन्तरं रामः कपीनवादीत् उक्तवान् । अमुं कुम्भकर्ण मा न वधिष्ट इति किन्तु
हतेति । '२४३३। हनो वध लुङि । २।४।१२।' ॥
 
१२२३ - ते व्यरासिषुरा॒ह्वन्त राक्षसं चा ऽप्य॑पिप्लवन् ॥
 
अवभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः ४२
 
.
 
त इत्यादि - ते वानराः हर्षाद्व्यरासिषुः किलकिलाशब्दं कृतवन्तः । '२२८४॥
अतो हलादेः-।७।२।७।' इति वृद्धिः । राक्षसं च कुम्भकर्णमाह्नन्त स्पर्धमाना
आहूतवन्तः । '२४१९। आत्मनेपदेष्वन्यतरस्याम् । ३।१।५४ ।' इति नः पक्षे
अङ् । अपिप्लवन् प्लावितवन्तः । अपिः शब्दार्थे । तथा कृतवन्तः यथासौ लुतिं
कर्तुमारब्धः । लवतेर्ण्यन्तस्य चङि सन्वत्कार्यमिति । '२५७८। स्रवति-शृणोति
-।७।४।८१।' इत्यादिना अभ्यासस्येत्वम् । स्वका आत्मीयाः शक्तीरबभासन्
प्रकाशयन्ति स्म । भासेर्ण्यन्तस्य चङि '२५६५ । भ्राजभास - १७१४ । ३ ।' इत्यादिना
उपधाह्नस्वविकल्पः । द्रुमाश्च शैलाश्च द्रुमशैलम् । '९१०। जातिरप्राणिनाम्
१२।४।६।' इत्येकवद्भावः । व्यकारिपुः तदुपरि क्षिप्तवन्तः । '१५०३ । कृ विक्षेपे'॥
१२२४–ते तं व्याशिषता ऽक्षौत्सुः
 
पादैर्, दन्तैस् तथा ऽच्छिदन्. ॥
 
आर्जिजत् शरभो वृक्षं,
 
नीलस् त्वा ऽऽदित पर्वतम् ॥ ४३ ॥
 
ते तमित्यादि - ते वानरास्तं राक्षसं व्याशिपत व्याप्तवन्तः । '१३४५। अशू
व्याप्तौ ।' पादैश्चाक्षैौत्सुः पिष्टवन्तः । '१५२७ । क्षुदिर् सम्पेपणे ।' दन्तैरच्छिदन्
छिन्दन्ति स्म । '२२६९। इरितो वा । ३।१।५७१' इत्यङ् । शरभो नाम कपिर्वृक्ष-
मार्जिजत् ग्रहीतुं यतते स्म । '१८५८। अर्ज प्रतियते' इति स्वार्थिकण्यन्ताञ्चडि
'२२४३। द्विर्वचने ऽचि ।१।१।५९ ।' इति स्थानिवद्भावात् '२१७६। अजादेर्द्विती-
यस्य ।६।१।२।' इति द्विर्वचनम् । रेफस्य '२३४६ । न न्द्राः । ६।१।३।' इति प्रति-
पेधः । नीलः पर्वतमादित गृहीतवान् । '२३८९ । स्था-ध्वोरिव । १।२।१७।' ॥