This page has been fully proofread twice.

अथाभिष्टुत एवं वै भगवानिदमब्रवीत् ॥
Thus extolled, the Lord said this then :
 
'वेदाऽहं ते व्यवसितं हृदि राजन्यबालक ।
तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥
नान्यैरधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुवक्षिति ।
यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥
"Young prince! I know what resolve
there is in your heart; welfare unto you;
O, you of excellent vow, I shall grant
that (object of yours) to you, though it is
hard to be attained, namely, that res-
plendent permanent place, O auspicious
(lad)! which is not occupied by anybody
else, and around which is set the wheel
of the luminaries, the planets, stars and
constellations.
 
'प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।
षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ।
भुक्त्वा चेहाशिषस्सत्या अन्ते मां संस्मरिष्यसि ।
ततो गन्तासि मत्स्थानं यतो नावर्तते गतः ॥'