This page has not been fully proofread.

OF CULTURE
 
● संस्कृति मंत्रा
 
GOVERNMENT OF
 
SRIMAD BHAGAVATA
 
KITO
 
SL
 
ब्राह्मणस्तां तु रजनीमुषित्वाऽच्युतमन्दिरे ।
श्वोभूते विश्वभावेन स्वसखेनाभिवन्दितः ।
जगाम स्वालयं [तात] पथ्यनुव्रज्य नन्दितः ॥
 
The Brahmin lived that night in the
mansion of the imperishable Lord and
the next morning, saluted by the Lord,
the bestower of prosperity of the universe,
and accompanied by Him for some
distance, went home, pleased.
 
स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम् ।
स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥
 
Not receiving any riches from Krishna,
Kuchela did not ask for them himself.
He went home ashamed, but happy at
having seen the great Lord.
 
काहं दरिद्रः पापीयान् क कृष्णः श्रीनिकेतनः ।
ब्रह्मबन्धुरिति स्माई बाहुभ्यां परिरम्भितः ॥
सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ।
अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
इति कारुणिको नूनं धनं मे भूरि नाददात् ।'
इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् ।