This page has been fully proofread twice.

त्वया खलु पुराणानि सेतिहासानि चानघ ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ।
तत्रतत्राञ्जसाऽऽयुष्मन् भवता यद्विनिश्चितम् ।
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि ॥
"By you, O sinless soul, the Puranas
with the legends of yore as well as the
Institutes of Dharma have been studied
and recited. In those various texts, O long-
lived Suta, what has been determined by
you, in straight interpretation, as the
invariable good for men, that you must
tell us.
 
' यस्यावतारो भूतानां क्षेमाय च भवाय च ।
तस्याख्याहि हरेर्धीमन् अवतारकथाश्शुभाः ॥'
"oO wise Suta, recite to us the
auspicious stories of the incarnations of
that Hari whose descent is for the welfare
and prosperity of beings."
 
इति संप्रश्नसंहृष्टः प्रवक्तुमुपचक्रमे ।
' मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।
यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥'