This page has been fully proofread once and needs a second look.

<page>
<ignore>
५८

</ignore>
<ignore>
प्रतिज्ञायौगन्धरायणे

</ignore>
<ignore>
[ i. 2. 3—

</ignore>
<ignore>

</ignore>
<ignore>

</ignore>

<stage>
( ततः प्रविशति यौगन्धरायणः सालकेन सह । )
</stage>

<speaker>
यौगन्धरायणः - </speaker>सालक ! सज्जस्त्वम् ।

<speaker>
सालकः -</speaker> अय्य! अहईं । इं । <chaya>[ आर्य ! अथकिम् । ]
</chaya>

<speaker>
यौगन्धरायणः -</speaker> महान् खल्वध्वा गन्तव्यः ।

<speaker>
सालकः -</speaker> महत्तरेण सिणेहेण अय्यं उवचिट्ठामि ।
नार्यमुपतिष्ठे । ]

<chaya>[ महत्तरेण

स्नेहेनार्यमुपतिष्ठे । ]</chaya>

<speaker>
यौगन्धरायणः -</speaker> हन्त यास्यति बलवान्, यस्य सौहार्दम् । कुतः,

<verse>
स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद्

यो वा विज्ञाता सत्कृतानां गुणानाम् ।

<ref>१</ref>
क्रीतं सामर्थ्यं यस्य तस्य क्रमेण

दैवप्रामाण्याद् भ्रश्यते वर्धते वा ॥ ३ ॥

</verse>

अथ वेणु<ref>२</ref>वनान् त्रिषु गहनेषु नागवनं श्वः प्रयाता स्वामी प्रागेव

सम्भावयितव्यः ।

<speaker>
सालकः -</speaker> अय्य! ळेहो खु मं ओवज्झ<ref>३</ref>इ, जहिं आअत्तं कय्यसरीरं ।

<chaya>
[ आर्य लेखः खलु मामपवहति, यस्मिन् आयत्तं कार्यशरीरम् । ]
</chaya>

<speaker>
यौगन्धरायणः -</speaker> विजये !

<stage>
( प्रविश्य )

</stage>

<speaker>
विजया -</speaker> अय्य इअम्हि । <chaya>[ आर्य ! इयमस्मि । ]

</chaya>

<speaker>
यौगन्धरायणः -</speaker> विजये ! त्वर्यतां लेखः प्रतिसरा च ।

<speaker>
विजया - </speaker>अय्य ! तह । <stage>(निष्क्रान्ता । ) </stage> <chaya>[ आर्य ! तथा । ]
</chaya>

<speaker>
यौगन्धरायणः -</speaker> अथ दृष्टपूर्वस्त्वयैष पन्थाः ।

<speaker>
सालक -</speaker>णहि, सुदपुरुवो। <chaya>[ नहि, श्रुतपूर्वः । ]

१२
</chaya>

<speaker>
यौगन्धरायणः -</speaker> एतदपि मेधाविलक्षणम् । भोः ! वनगजप्रच्छादित-

शरीरं नीलहस्तिनमुपन्यस्य प्रद्योतः स्वामिनं छलयितुकाम इति

<footnote>
१ अतीतं.

</footnote>
<footnote>
२ वेणुवनाश्रितेषु गहनेषु. </footnote>
<footnote>
३ ओबज्झइ.
</footnote>
<ignore>

</ignore>
</page>