This page has not been fully proofread.

५८
 
प्रतिज्ञायौगन्धरायणे
 
[ i. 2. 3—
 

 

 
( ततः प्रविशति यौगन्धरायणः सालकेन सह । )
यौगन्धरायणः - सालक ! सज्जस्त्वम् ।
 
सालकः - अय्य! अहईं । [ आर्य ! अथकिम् । ]
यौगन्धरायणः - महान् खल्वध्वा गन्तव्यः ।
 
सालकः - महत्तरेण सिणेहेण अय्यं उवचिट्ठामि ।
नार्यमुपतिष्ठे । ]
 
[ महत्तरेण
 
९ यौगन्धरायणः - हन्त यास्यति बलवान्, यस्य सौहार्दम् । कुतः,
स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद्
 
यो वा विज्ञाता सत्कृतानां गुणानाम् ।
'क्रीतं सामर्थ्यं यस्य तस्य क्रमेण
 
दैवप्रामाण्याद् भ्रश्यते वर्धते वा ॥ ३ ॥
 
अथ वेणुवनान् त्रिषु गहनेषु नागवनं श्वः प्रयाता स्वामी प्रागेव
सम्भावयितव्यः ।
 
३ सालकः - अय्य! ळेहो खु मं ओवज्झइ, जहिं आअत्तं कय्यसरीरं ।
[ आर्य लेखः खलु मामपवहति, यस्मिन् आयतं कार्यशरीरम् । ]
यौगन्धरायणः - विजये !
 
( प्रविश्य )
 
विजया - अय्य इअम्हि । [ आर्य ! इयमस्मि । ]
 
यौगन्धरायणः - विजये ! त्वर्यतां लेखः प्रतिसरा च ।
 
९ विजया - अय्य ! तह । (निष्क्रान्ता । ) [ आर्य ! तथा । ]
यौगन्धरायणः - अथ दृष्टपूर्वस्त्वयैष पन्थाः ।
 
सालक -गहि, सुदपुरुवो। [ नहि, श्रुतपूर्वः । ]
 
१२ यौगन्धरायणः - एतदपि मेधाविलक्षणम् । भोः ! वनगजप्रच्छादित-
शरीरं नीलहस्तिनमुपन्यस्य प्रद्योतः स्वामिनं छलयितुकाम इति
 
१ अतीतं.
 
२ वेणुवनाश्रितेषु गहनेषु. ३ ओबज्झइ.