This page has been fully proofread once and needs a second look.
<page>
<subtitle lang="sa">॥ श्रीः ॥</subtitle>
<subtitle lang="sa">भासनाटकचक्रे</subtitle>
( नान्यन्ते ततः प्रविशति सूत्रधार :)
<verse>सूत्रधारः -
पातु वासवदत्तायो महासेनोऽतिवीर्यवान् ।
वत्सराजस्तु नाम्ना सशक्तियौगन्धरायणः ॥ १ ॥</verse>
(परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् ।
( प्रविश्य )
नटी - अय्य ! इअम्हि । [ आर्य ! इयमस्मि । ]
सूत्रधारः - आर्ये ! गीयतां तावत् किञ्चिद् वस्तु । ततस्तव गीत-
प्रसादिते रङ्गे वयमपि प्रकरणमारभामहे । आयें ! किमिदं
चिन्त्यते । ननु गीयते ।
नटी - अज्ज मए सिविणे ज्ञादिकुळस्स अस्सत्थं विअ दिट्ठं । ता
इच्छामि अय्येण कुसळविज्ञाणणिमित्तं कञ्चि पुरुषं पेसिदुं<ref>१</ref> ।
[ अद्य मया स्वप्ने ज्ञातिकुलस्यास्वास्थ्यमिव दृष्टम् । तदिच्छाम्यार्येण
कुशलविज्ञाननिमित्तं कञ्चित् पुरुषं प्रेषयितुम् । ]
सूत्रधारः - बाढम् ।
<verse lang="sa">पुरुषं प्रेषयिष्यामि व्यक्तमात्महिते क्षमम् ।</verse>
( नेपथ्ये )
सालक ! सज्जस्त्वम् ।
<verse lang="sa">सूत्रधारः - पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥ २ ॥</verse>
(निष्क्रान्तौ । )
<trailer lang="sa">स्थापना ।</trailer>
<footnote mark="१">पेक्खिदुं.</footnote>
</page>