This page has been fully proofread once and needs a second look.

<page>
<subtitle lang="sa">
BT:श्रीः

</subtitle>
<subtitle lang="sa">
भासनाटकचक्रे

</subtitle>
<title lang="sa">
प्रतिज्ञा यौगन्धरायण मू

म्</title>

( नान्यन्ते ततः प्रविशति सूत्रधार :)

<verse>
सूत्रधारः -
पातु वासवदत्तायो महासेनोऽतिवीर्यवान् ।

वत्सराजस्तु नाम्ना सशक्तियौगन्धरायणः ॥ १ ॥
</verse>

(परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् ।

( प्रविश्य )

नटी - अय्य ! इअम्हि । [ आर्य ! इयमस्मि । ]

सूत्रधारः - आर्ये ! गीयतां तावत् किञ्चिद् वस्तु । ततस्तव गीत-

प्रसादिते रङ्गे वयमपि प्रकरणमारभामहे । आयें ! किमिदं

चिन्त्यते । ननु गीयते ।

9

नटी - अज्ज मए सिविणे ज्ञादिकुळस्स अस्सत्यंथं विअ दिट्ठेठं । ता

इच्छामि अय्येण कुसळविज्ञाणणिमित्तं कञ्चि पुरुषं पेसिदु ।
दुं<ref>१</ref> ।
[ अद्य मया स्वप्ने ज्ञातिकुलस्यास्वास्थ्यमिव दृष्टम् । तदिच्छाम्यार्येण

कुशलविज्ञाननिमित्तं कञ्चित् पुरुषं प्रेषयितुम् । ]

सूत्रधारः - बाढम् ।

<verse lang="sa">
पुरुषं प्रेषयिष्यामि व्यक्तमात्महिते क्षमम् ।
</verse>

( नेपथ्ये )

सालक ! सज्जस्त्वम् ।

<verse lang="sa">
सूत्रधारः - पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥ २ ॥

१ पेक्खिदुं.

</verse>

(निष्क्रान्तौ । )

<trailer lang="sa">
स्थापना ।

</trailer>
<footnote>पेक्खिदुं.</footnote>
</page>