2025-12-29 10:39:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">vi.19.'' ]
</ignore>
<ignore lang="sa">षष्ठोऽङ्कः ।
</ignore>

यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।
चंद

पद्मावती - अम्महे अय्या खु इअं । अय्ये ! सहीजणसमुदाआरेण
३
अजाणन्तीए अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि ॥
[ अहो आर्या खल्वियम् ! आयेंर्ये । सखीजनसमुदाचारेणाजानन्त्या-
तिक्रान्तः समुदाचारः, तच्छीर्षेण प्रसादयामि । ]
६

वासवदत्ता-( पद्मावतीमुत्थाप्य । ) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि ।
अस्
अत्थिसअं णाम सरीरं अवरद्धइ ॥ [ उत्तिष्ठोत्तिष्ठाविधवे ! उत्तिष्ठ ।
अर्थिस्वं नाम शरीरमपराध्यति । ]
९

पद्मावती - अणुग्गहिदम्हि ॥ [ अनुगृहीतास्मि । ]

राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।

यौगन्धरायणः - कौशाम्बीमात्रं परिपालयामीति ।

१२ राजा - अथ पद्मावत्या हस्ते किं न्यासकारणम् ।

यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी
भविष्यतीति ।
१५

राजा - इदमपि रुमण्वता ज्ञातम् ।

यौगन्धरायणः - स्वामिन्! सर्वैरेव ज्ञातम् ।

राजा - अहो शठः खलु रुमण्वान् ।
१८

यौगन्धरायणः - स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनि-
वर्ततामत्रभवान् रैभ्योऽत्रभवती च ।

राजा-न, न । सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
२१

यौगन्धरायणः - यदाज्ञापयति स्वामी ।

( भरतवाक्यम् । )

<verse n="19" lang="sa">इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥
</verse>

(निष्क्रान्ताः सर्वे । )

<trailer>षष्ठोऽङ्कः ।
</trailer>
<trailer lang="sa">इति स्वप्रनवासवदत्तमवसितम् ।
</trailer>
</page>
<ignore lang="sa">vi.19.
<ignore lang="sa">षष्ठोऽङ्कः ।

यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।
चंद

पद्मावती - अम्महे अय्या खु इअं । अय्ये ! सहीजणसमुदाआरेण
३
अजाणन्तीए अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि ॥
[ अहो आर्या खल्वियम् ! आ
तिक्रान्तः समुदाचारः, तच्छीर्षेण प्रसादयामि । ]
६

वासवदत्ता-( पद्मावतीमुत्थाप्य । ) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि ।
अस्
अत्थिसअं णाम सरीरं अवरद्धइ ॥ [ उत्तिष्ठोत्तिष्ठाविधवे ! उत्तिष्ठ ।
अर्थिस्वं नाम शरीरमपराध्यति । ]
९

पद्मावती - अणुग्गहिदम्हि ॥ [ अनुगृहीतास्मि । ]

राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।

यौगन्धरायणः - कौशाम्बीमात्रं परिपालयामीति ।

१२ राजा - अथ पद्मावत्या हस्ते किं न्यासकारणम् ।

यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी
भविष्यतीति ।
१५

राजा - इदमपि रुमण्वता ज्ञातम् ।

यौगन्धरायणः - स्वामिन्! सर्वैरेव ज्ञातम् ।

राजा - अहो शठः खलु रुमण्वान् ।
१८

यौगन्धरायणः - स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनि-
वर्ततामत्रभवान् रैभ्योऽत्रभवती च ।

राजा-न, न । सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
२१

यौगन्धरायणः - यदाज्ञापयति स्वामी ।

( भरतवाक्यम् । )
<verse n="19" lang="sa">इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥

(निष्क्रान्ताः सर्वे । )
<trailer>षष्ठोऽङ्कः ।
<trailer lang="sa">इति स्वप्
</page>