This page has not been fully proofread.

vi.19.' ]
 
षष्ठोऽङ्कः ।
 
यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।
 
चंद
 
पद्मावती - अम्महे अय्या खु इअं । अय्ये ! सहीजणसमुदाआरेण
३ अजाणन्तीए अदिकन्दो समुदाआरो । ता सीसेण पसादेमि ॥
[ अहो आर्या खल्वियम् ! आयें । सखीजनसमुदाचारेणाजानन्त्या-
तिक्रान्तः समुदाचारः, तच्छीर्षेण प्रसादयामि । ]
 
६ वासवदत्ता-( पद्मावतीमुत्थाप्य । ) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि ।
अस्थिसअं णाम सरीरं अवरद्धइ ॥ [ उत्तिष्ठोत्तिष्ठाविधवे ! उत्तिष्ठ ।
अर्थिस्वं नाम शरीरमपराध्यति । ]
 
९ पद्मावती - अणुग्गहिदम्हि ॥ [ अनुगृहीतास्मि । ]
 
राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।
यौगन्धरायणः - कौशाम्बीमात्रं परिपालयामीति ।
 
१२ राजा - अथ पद्मावत्या हस्ते किं न्यासकारणम् ।
 
यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी
भविष्यतीति ।
 
१५ राजा - इदमपि रुमण्वता ज्ञातम् ।
 
यौगन्धरायणः - स्वामिन्! सर्वैरेव ज्ञातम् ।
 
राजा - अहो शठः खलु रुमण्वान् ।
 
१८ यौगन्धरायणः - स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनि-
वर्ततामत्रभवान् रैभ्योऽत्रभवती च ।
 
राजा-न, न । सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
२१ यौगन्धरायणः - यदाज्ञापयति स्वामी ।
 
( भरतवाक्यम् । )
 
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥
(निष्क्रान्ताः सर्वे । )
षष्ठोऽङ्कः ।
 
इति स्वप्रवासवदत्तमवसितम् ।