This page does not need to be proofread.

<page>

APPENDIX D

6 कठिणहृदये मुख क्रोधं सुखप्रतिघातकं

लिखति दिवस यातं यातं यमः किल मानिनि ।

वयसि तरुणेनैतद्युक्तं चले च समागमे

भवति कलहो यावत्तावद्वरं सुभगे रतम् ॥

<verse lang="sa">
7 कृतककृतकैर्माया सख्यैस्त्वयास्म्यतिवचिता

निभृत निभृतैः कार्यालापैर्मयाप्युपलक्षितम् ।

भवतु विदितं नेहं ते वृथा किमु खिद्यसे

ह्यमसहना त्वं निःस्नेहः समेन समं गतम् ॥

</verse>

8 विरहिवनितावक्त्रौपम्यं बिभर्ति निशापति-

गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेः ।

अभिनववधूरोपस्वादुः करीषतनूनपा-

दसरलजनाश्लेषक्रूर स्तुपारसमीरणः ॥

9 यदपि विबुधैः सिन्धोरन्तः कथंचिदुपार्जितं

तदपि सकलं चारुस्त्रीणां मुखेषु विलोक्यते ।

सुरसुमनसः श्वासामोदे शशी च कपोलयो-

रमृतमधरे तिर्यग्भूते विषं च विलोचने ।

579

सुभाषितावल्याम्

सुभाषितावल्याम्

दुक्तिकर्णामृते

सूक्तिमुक्तावल्याम्

<verse lang="sa">
10 दुःखार्ते मयि दुःखिता भवति या हृष्टे प्रहृष्टा तथा

दीने दैन्यमुपैति रोषपरुषे पथ्यं वचो भाषते ।

कालं वेत्ति कथाः करोति निपुणा मत्संस्तवे रज्यति

भार्या मन्त्रिवरः सखा परिजनः सैका बहुत्वं गता ॥

</verse>

सुभाषितावल्याम्

</page>