This page has not been fully proofread.

578
 
भासनाटकचक्र
 
APPENDIX D
 
Stanzas attributed to Bhāsa in the Anthologies,
 
but not found in the existing texts.
 
1 दग्धे मनोभवतरौ बालाकुचकुम्भसंभृतैरमृतैः ।
त्रिवलीकृतालवाला जाता रोमावली वल्ली ।
 
2 पेया सुरा प्रियतमामुखमीक्षणीयं
 
ग्राह्यः स्वभावललितो विकटश्च वेषः ।
येनेदमीदृशमदृश्यत मोक्षवर्त्म
 
दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥
3 तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव चित्तमन्तः
कामी दरिद्र इव शोषमुपैति पङ्कः ॥
 
4 बाला च सा विदितपञ्चशरप्रपचा
 
तन्वी च सा स्तनभरोपचिताङ्गयष्टिः ।
 
लज्जां समुद्वहति सा सुरतावसाने
 
हा कापि सा किमिव किं कथयामि तस्याः ॥
 
5 कपाले मार्जारः पय इति कराँलेढि शशिन-
स्तरुच्छिद्रप्रोतान्विसमिति करी संकलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥
 
सदुक्तिकर्णामृते
 
शार्ङ्गधरपद्धती
 
सुभाषितावल्याम्
 
शार्ङ्गधरपद्धत