This page has not been fully proofread.

v, 20.3 ]
 
पञ्चमोऽङ्कः ।
 
५५७
 
दामोदरः- अये देवर्षिर्नारदः । देवर्षे ! स्वागतम् । इदमर्घ्यं पाद्यं च ।
 
नारद:- सर्वं गृह्णामि । गन्धर्वाप्सरसो गायन्ति ।
 
नारायण ! नमस्तेऽस्तु प्रणमन्ति च देवताः ।
 
अनेनासुरनाशेन मही च परिरक्षिता ॥ १८ ॥
 
दामोदरः - देवर्षे ! परितुष्टोऽस्मि । किं ते भूयः प्रियमुपहरामि ।
 
नारद:-
 
प्रहृष्टो यदि मे विष्णुः सफलो मे परिश्रमः ।
 
गमिष्ये विधावासं सह सर्वैः सुरोत्तमैः ॥ १९ ॥
 
दामोदर:- गच्छतु भवान् पुनर्दर्शनाय ।
 
नारद: - यदाज्ञापयति भगवान् नारायणः । (निष्क्रान्तः । )
( भरतवाक्यम )
 
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ २० ॥
(निष्क्रान्ताः सर्वे )
 
पञ्चमोऽङ्कः ।
 
अवसितं बालचरितम् ॥
 
४७