2025-12-29 10:01:10 by ambuda-bot
This page has not been fully proofread.
५५६
बालचरिते
भट: - यदाज्ञापयत्यार्यपुत्रः । (निष्क्रान्तः । )
१८ वसुदेव:- अय,
[v.13.17_
नदन्ति सुरतूर्याणि वृष्टिः पतति कौमी ।
कंमान्तकस्य पूजार्थं प्रायो देवाः समागताः ॥ १४ ॥
(नेपथ्ये )
श्रीमानिमां कनकचित्रितहर्म्यमालां
विस्तीर्णराजभवनापणगोपुराट्टाम् ।
पायान् सदैव मधुरां कमलायताक्ष-
स्त्रैलोक्यजिन सुरवरस्त्रिदशेन्द्रनाथः ॥ १५ ॥
वसुदेवः - भो भो मधुरावासिनः ! शृण्वन्तु शृण्वन्तु भवन्तः ।
अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षत्रपराङ्मुखावलोकिनो
३ वसुदेवसम्भवस्य वासुदेवस्य प्रसादान् पुनरधिगतराज्यस्योप्रसेनस्य
शासनमिदानीमवघुष्यते ।
सर्वे-प्रतिष्ठितमिदानीं वृष्णिराज्यम् ।
६ वसुदेवः - प्रवेश्यतां महाराजः ।
भटः - यदाज्ञापयत्यार्यपुत्रः । (निष्क्रान्तः । )
९ उग्रसेनः-
( ततः प्रविशत्युग्रसेनः । )
चिरोपरोधसम्प्राप्तः क्लेशो मे केशिसूदनात् ।
अपनीतः स्ववीर्येण यथा विष्णोः शतक्र( तु ? तो): ॥ १६ ॥
भगवत्प्रसादाद् व्यसनार्णवादुत्तारितोऽस्मि ।
( ततः प्रविशति नारदः । )
नारद:- कंसे प्रमथिते विष्णोः पूजार्थं देवशासनात् ।
सगन्धर्वाप्सरोभिश्व देवलोकादिहागतः ॥ १७ ॥
४६