2025-12-29 10:01:09 by ambuda-bot
This page has not been fully proofread.
५५४
सङ्कर्षण:-
बालचरिते
त्वामद्य मुष्टिक ! यमाय निवेदयामि ।
( सर्वे नियुद्धं कुर्वन्ति । )
दामोदर:- ( चाणूरं निहत्य )
भग्नास्थिरेष निहतो
सङ्कर्षण:-
निहतो मयापि
[v.10.
दामोदर:-
कंसासुरं च यमलोकमहं नयामि ॥ १० ॥
( प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा ) एष एष दुरात्मा कंसः,
विस्तीर्णलोहितमुखः परिवृत्तनेत्रो
भग्नां कण्ठकटिजानुक रोजङ्घः ।
विच्छिन्नहार पतिताङ्गदलम्बसूत्रो
वज्रप्रभग्नशिखरः पतितो यथाद्रिः ॥ ११ ॥
(नेपथ्ये )
हा हा महाराजः ।
( पुनर्नेपथ्ये )
भो भो वृष्णियोधाः ! अनावृष्टिशिवकहृदिकपृथुकसोमदत्ताक्रूर
प्रमुखाः ! अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः । शीघ्रमागच्छन्तु
६ भवन्तः ।
दामोदर:- आर्य ! संवार्यतां सैन्यम् ।
सङ्कर्षण:-अयमयं वारयामि ।
द्रुततुरगरथेभभ्रान्तयोधोप्रनादं
विलसदमलखड्गप्रासशक्त्यृष्टिकुन्तम् ।
४४
सङ्कर्षण:-
बालचरिते
त्वामद्य मुष्टिक ! यमाय निवेदयामि ।
( सर्वे नियुद्धं कुर्वन्ति । )
दामोदर:- ( चाणूरं निहत्य )
भग्नास्थिरेष निहतो
सङ्कर्षण:-
निहतो मयापि
[v.10.
दामोदर:-
कंसासुरं च यमलोकमहं नयामि ॥ १० ॥
( प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा ) एष एष दुरात्मा कंसः,
विस्तीर्णलोहितमुखः परिवृत्तनेत्रो
भग्नां कण्ठकटिजानुक रोजङ्घः ।
विच्छिन्नहार पतिताङ्गदलम्बसूत्रो
वज्रप्रभग्नशिखरः पतितो यथाद्रिः ॥ ११ ॥
(नेपथ्ये )
हा हा महाराजः ।
( पुनर्नेपथ्ये )
भो भो वृष्णियोधाः ! अनावृष्टिशिवकहृदिकपृथुकसोमदत्ताक्रूर
प्रमुखाः ! अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः । शीघ्रमागच्छन्तु
६ भवन्तः ।
दामोदर:- आर्य ! संवार्यतां सैन्यम् ।
सङ्कर्षण:-अयमयं वारयामि ।
द्रुततुरगरथेभभ्रान्तयोधोप्रनादं
विलसदमलखड्गप्रासशक्त्यृष्टिकुन्तम् ।
४४