This page has not been fully proofread.

―v. 10.1
 
पञ्चमोऽङ्कः ।
 
५५३
 
उभौ-
 
-आः कस्य महाराजः ।
 
३ भटः - सर्वस्य जगतोऽस्माकं च ।
दामोदर:- अद्यप्रभृति न भविष्यति ।
 
भट: - जयतु महाराजः । एतौ तौ ।
६ राजा - ( विलोक्य) अयं स दामोदरः । अहो,
श्रीमान मदान्धगजधीरविलासगामी
श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः ।
पूर्वं श्रुतानि चरितानि न चित्रमस्य
 
लोकत्रयं हि परिवर्तयितुं समर्थः ॥ ८ ॥
 
अयं नु ललितगम्भीराकृतिः पूर्वजोऽम्य राम इति श्रूयते ।
अभिनवकमलामलायताक्षः शशिनिभमूर्तिरुदारनीलवामाः ।
रजतपरिघवृत्तदीर्घबाहुश्चलद सितोत्पलपत्रचित्रमालः ॥ ९ ॥
दामोदरः - आर्य ! एतावेवावाभ्यां युद्धसन्नद्धाविति मन्ये ।
सङ्कर्षणः - भवितव्यम् ।
 
३ राजा-
-ध्रुवसेन ! प्रवर्ततां युद्धम् ।
 
भटः- यदाज्ञापयति महाराजः ( मालां क्षिपति । )
 
मल्ली - अङ्को ! वादेथ वादेथ
 
६ यत वादयत सङ्ख्यपटहान् । ]
 
सङ्कपटहाणि । [ अङ्को ! वाद-
 
चाणूर:- एहि दामोदळ ! अज्ज मे भुजजुअळेहि सिद्धिं गच्छ ।
 
[ एहि दामोदर ! अद्य मे भुजयुगलेन सिद्धिं गच्छ । ]
 
९ दामोदर:-
 
प्राप्तोऽस्मि तिष्ठ मम वेगमिमं सहस्व
 
मुष्टिकः - ए ए काम ! अज्ज में मुट्ठिपिट्ठगत्तगळि अळुहिळपडळमज्जो
जीवि उज्झसि । [ ए ए राम ! अद्य मे मुष्टिपिष्टा । त्रगलित रुधिर-
३ पटलमज्जो जीवितमुज्झसि । ]
 
बाल. ३२
 
४३