This page has not been fully proofread.

-v. 4.]
 
पचमोऽङ्कः ।
 
५५१
 
मालाकारापणेभ्यः पुष्पाण्याहृत्यावबध्य धनुःशालाभिमुखो गतः ।
- किन्नुखलु तेन व्यवसितम् । तेन हि शीघ्रं गच्छ । भूयो
ज्ञायतां वृत्तान्तः ।
 
९ राजा-
 
भट: - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महाराजः ।
१२ धनुःशालारक्षकेण सिंहबलेन वार्यमाणस्तं कर्णमूले प्रहृत्य हत्वा
धनुः समादाय द्विखण्डं कृत्वा साम्प्रतमुपस्थानाभिमुखो गतः ।
 
सहि,
 
आपीडदामशिबिर्हविचित्रवेपः
 
पीताम्बरः सजलतोयदराशिवर्णः ।
अभ्येति रोषपरिवृत्तविशालनेत्रो
 
रामेण सार्धमिह मृत्युरिवावतीर्णः ॥ ३ ॥
 
राजा - सावेगमिव मे हृदयम् । गच्छ यथानिर्दिष्टौ चाणूरमुष्टिको
प्रवेशय, वृष्णिकुमाराणां सन्नाहमाज्ञापय ।
 
३ भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
राजा - यावदहमपि प्रासादमारुह्य चाणूरमुष्टिकयोर्युद्धं पश्यामि ।
( आरुह्य ) मधुरि के ! विघयतां द्वारम् ।
 
६ प्रतिहारी - जं भट्टा आणवेदि । [ यद भर्ताज्ञापयति । ]
 
९ चाणूर:-
 
( राजा प्रविश्यांपविशति । )
 
( ततः प्रविशतश्चाणूरमुष्टिको । )
 
एसो म्हि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो ।
भञ्जमि अज्ज बाळं दामोदळं लंगमज्झम्मि ॥ ४ ॥
[ एषोऽस्मि युद्धसज्जो मत्तो हस्तीव दर्पसंपूर्णः ।
भनज्म्यद्य बाले दामोदरं रङ्गमध्ये ॥ ]
 
४१