This page has not been fully proofread.

iv. 13. ' ]
 
चतुर्थोऽङ्कः ।
 
५४९
 
[ भर्त: ! एतानि मुनिसङ्घैरनवचितपूर्वाणि पुष्पाणि परामृष्टानि चन्द्रा-
दिव्याकरणैरपरिमर्दितानि । बिभीमो भर्तः ! । ]
 
२१ दामोदरः - पूर्वं दृष्टुभया वित्रस्तास्तपस्विन्यः । न भेतव्यं न
भेतव्यम् । इदानीं खलु मत्करस्पर्शनान् मौम्यभावमुपगता
गृह्यन्ताम् ।
 
२४ सर्वाः -- जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ]
 
( प्रविश्य )
 
:- भो गोपालक ! क गतो नन्दगोपपुत्रः ।
 
भटः-
 
२७ गोपालकः - एषो भट्टा काळिअं णाम महाणाअं परिपीडिअ गोव-
आहि परिवुदो ओ । [ एप भर्ता कालियं नाम महानागं
परिपीड्य गोपकन्यकाभिः परिवृतः स्थितः । ]
 
३० भटः- ( उपगम्य ) भो नन्दगोपपुत्र ! अनुगतार्थनामधेयस्य महा-
राजम्योग्रसेनम्य पुत्रः कंसराजो भवन्तमाज्ञापयति ।
 
दामोदरः- कथमाज्ञापयतीति ।
 
३३ भटः - मधुरायां धनुर्महो नाम महोत्सवो भविष्यति । तमनुभवितुं
सपरिजनाभ्यां भवद्भयामागन्तव्यमिति ।
 
दामोदरः- आर्य ! अयं ननु देवरहस्यकालः ।
 
३६ सङ्कर्षण:- शीघ्रमिदानीं गमिष्यावः ।
 
दामोदर:- बाढम् । प्रथमः कल्पः । एप भोः !
 
प्रभ्रष्टरत्नमकुटं परिकीर्णकेशं
 
विच्छिन्नहारपतिताङ्गदलम्बसूत्रम् ।
 
आकृष्य कंसमहमद्य दृढं निहन्मि
 
नागं मृगेन्द्र इव पूर्वकृतावलेपम् ॥ १३ ॥
( निष्क्रान्ताः सर्वे । )
 
चतुर्थोऽङ्कः ।
 
३९