This page has not been fully proofread.

५४८
 
बालचरित
 
[ iv. 11. 3-
 
३ कालिय:- भगवतो वरवाहनाद् गरुडाद् भीतोऽहमिह प्रविष्टोऽस्मि ।
तदिच्छामि गरुडाद्भयं भगवत्प्रसादान् ।
दामोदरः - भवतु भवतु ।
 
मम पादेन नागेन्द्र ! चिह्नितं तव मूर्धनि ।
सुपर्ण एव प्रेदमभयं ते प्रदाम्यति ॥ १२ ॥
 
कालिय: - अनुगृहीतोऽस्मि ।
 
दामोदरः - प्रविशतु भवान् ।
 
३ कालिय: - यदाज्ञापयति भगवान् नारायणः ।
 
दामोदर:- अथवा एहि तावत् ।
 
कालिय:- भगवन ! अयमस्मि ।
 
६ दामोदरः - अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजास्वप्रमादः कर्तव्यः ।
कालिय:- भगवन ! मद्विपदूपितमिदं जलम् । तदिदानीमेव विपं
संहृत्य यमुनादान्निष्क्रामामि ।
 
९ दामोदरः - प्रतिनिवर्ततां भवान ।
 
कालिय: - यदाज्ञापयति भगवान नारायणः । ( सपरिजनां निष्क्रान्तः । )
दामोदर:- यावदहमपि हृदाद गृहीतानि पुष्पाणि गोपकन्यकाभ्यः
१२ प्रयच्छामि ।
 
सर्वा: - एसो भट्टा अम्हाणं हिअआणन्दं करन्तां अक्खदसरीरो
इदो एव आच्छदि । जेदु भट्टा । [ एप भर्तास्माकं हृदयानन्द
१५ कुर्वन् अक्षतशरीर इत एवागच्छति । जयतु भर्ता । ]
 
सङ्कर्षणः- दिष्टया गोत्राह्मणहितं कृतम् ।
 
दामोदर:- गृह्यन्तां पुष्पाणि ।
 
सर्वा:- भट्टा ! दाणि मुणिस केहि अणवइदपुत्र्वाणि पुष्फाणि पळा-
१८ मिट्ठाणि चन्द्रादिवकिरणेहि अपरिमद्दिदाणि । भाआमो भट्टा ! ।
 
३८