This page has not been fully proofread.

—iv. 11.' ]
 
चतुर्थोऽङ्कः ।
 
५४७
 
दामोदर:-
 
विध्वस्तमीन मकरा यमुनादान्ताद्
 
दर्पोच्छ्रयेण महता दृढमुच्छ्रसन्तम् ।
आशीविषं कलुषमायतवृत्तभोग-
 
मेष प्रसह्य सहसा भुवि विक्षिपामि ॥ ८ ॥
 
कालिय: - एष भोः !
 
रोषेण धूमायति यस्य देहस्तेनैव दाहं पृथिवी प्रयाति ।
 
३ ज्वालावलीभिः प्रदहामि सोऽहं रक्षन्तु लोकाः समरुद्गणास्त्वाम् ॥९॥
दामोदरः- कालिय ! यदि ते शक्तिरस्ति, दह्यतां ममैको भुजः 1
कालिय: - हहह,
 
चतुः सागरपर्यन्तां ससप्तकुलपर्वताम् ।
 
दहेयं पृथिवीं कृत्स्नां किं भुजं न दहामि ते ॥ १० ॥
 
हं, तिष्ठेदानीम् । एष त्वां भस्मीकरोमि । ( विषाग्निं मुञ्चति । )
दामोदरः - हन्त दर्शितं ते वीर्यम् ।
 
३ कालिय: - प्रसीदतु प्रसीदतु भगवान् नारायणः ।
दामोदर:- अनेन वीर्येण भवान् गर्वितः ।
 
कालिय:- प्रसीदतु भगवान् ।
 
गोवर्धनोद्धरणमप्रतिमप्रभावं
 
बाहुं सुरेश ! तव मन्दरतुल्यसारम् ।
का शक्तिरस्ति मम दग्धुमिमं सुवीर्यं
 
यं संश्रितास्त्रिभुवनेश्वर ! सर्वलोकाः ॥ ११ ।
 
भगवन् ! अज्ञानादतिक्रान्तवान्, सान्तःपुरः शरणागतोऽस्मि ।
दामोदर:- कालिय ! किमर्थमिदानीं यमुनाहूदं प्रविष्टोऽसि ।
 
३७