This page has not been fully proofread.

५४४
 
दामोदर:-
 
बालचरित
 
अथ चतुर्थोऽङ्कः ।
 
( ततः प्रविशति दामोदरः । )
 
[ i. iv.
 
एता मत्तचकोरशावनयनाः प्रद्भिन्नकस्तनाः
कान्ताः प्रस्फुरिताधरोष्ठरुचयो विस्रस्तकेशस्रजः ।
सम्भ्रान्ता गलितोत्तरीयवसनास्त्रासाकुलय्याहृता-
 
म्ता मामनुयान्ति पन्नगपतिं प्रैव गोपाङ्गनाः ॥ १ ॥
( ततः प्रविशन्ति गोपकन्यकाः । )
 
सर्वा: - माखु मावु भट्टा ! एदं जळासअं पविसितुं । एसो खु
३ दुट्टमहारअकुळावासों । [ माग्खलु माखलु भर्तः ! एवं जलाशयं
प्रवेष्टुम् । एष खलु दुष्टमहोरगकुलावास: । ]
 

 
दामोदरः-न खलु न खलु विषादः कार्यः । पश्यन्तु भवत्यः ।
निष्पक्षिव्यालयूथं भयचकितकरित्रात विप्रेक्षिताम्भो-
 
गम्भीरं स्निग्धनीरं हृदमुदधिनिभं क्षोभयन् सम्प्रविश्य ।
गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैर्वार्यमाणः
 
कालिन्दीवासरक्तं भुजगमतित्रलं कालियं धर्षयामि ॥ २ ॥
सर्वा: - भट्टा ! पङ्कळिपण ! वाळेहि वाळेहि भट्टिदामोदळ ।
[ भर्त: ! संकर्षण ! वारय वारय भर्तृदामोदरम् । ]
 
( प्रविश्य )
 
सङ्कर्षणः- अलमलं भयविपादाभ्याम् । दर्शितोऽनुरागः । पश्यन्तु
 
भवत्यः ।
 
विपदहन शिखाभिर्यन्मुखान् प्राताभिः
 
कपिशितमशिवाभिश्चक्रवालं दिशानाम् ।
सरभसम भियान्तं कृष्णमालक्ष्य शङ्की
 
नमयति शिरसान्तर्मण्डलं चण्डनागः ॥ ३ ॥
 
३४