This page has not been fully proofread.

iii. 19.' ]
 
तृतीयोऽङ्कः ।
 
( तथा कृत्वा ) एष एष दुरात्मारिष्टर्षभः,
विसृतरुधिरधाराक्लिन्ननासास्यनेत्रं
चलितककुदवालः प्रस्फुरत्पादकर्णः ।
निपतति विगतात्मा भूतले वज्रभिन्नो
गिरिरिव शिखरायैर्गोवृषो दानवेन्द्रः ॥ १५ ॥
( प्रविश्य )
 
५४३
 
दामक:- जेदु भट्टा । एषो भट्टा षङ्कळिषणो पव्वदादो जमुनाहळे
३ काळिओ नाम महाणाओ उट्ठिदो त्ति पुणिअ तं पडिगओ ।
वाळेहि वाळेहि भट्टा ! षङ्कळिषणं । [ जयतु भर्ता । एष भर्ता
संकर्षणः पर्वताद् यमुनाहूदे कालियो नाम महानाग उत्थित इति
६ श्रुत्वा तं प्रतिगतः । वारय वारय भर्तः ! संकर्षणम् । ]
 
दामोदरः-कालियो नाम मयापि श्रूयते सदर्पः पन्नगपतिः । भव-
त्वमस्य दर्पप्रशमनं करोमि ।
 
गोब्राह्मणादयस्तेन सुजूष्यन्ते किल प्रजाः ।
 
अद्यप्रभृति शान्तात्मा निष्प्रभः स भविष्यति ॥ १६ ॥
( निष्क्रान्तौ । )
 
तृतीयोऽङ्कः ।
 
३३