This page has not been fully proofread.

५४२
 
बालचरिते
 
गिरितटकठिनांसावेव बाहू ममैतौ
 
प्रहरणमपरं तु त्वादृशां दुर्बलानाम् ।
अथ मम भुजदण्डैः पीडयमानश्च शीघ्रं
 
[iii. 11. -
 
यदि न पतसि भूमौ नास्मि दामोदरोऽहम् ॥ ११ ॥
अरिष्टर्षभः - तेन हि प्रवर्ततां युद्धम् ।
 
,
 
दामोदरः - भो गोवृषाधम ! यदि ते शक्तिरस्ति मां पादेनैकेन
३ स्थितं स्थानात् कम्पय ।
 
अरिष्टर्षभः - कोऽत्र संशयः । ( तथा कर्तुं चेष्टयित्वा मूर्च्छितः पतति । )
दामोदरः - भो गोवृष ! समाश्वसिहि समाश्वसिहि । अनेन वीर्येण
६ भवान् गर्वितः ।
 
अरिष्टर्षभः- (आश्वस्य, आत्मगतम् ) अहो दुष्प्रसह्योऽयं बालः ।
रुद्रो वायं भवेन्टको विष्णुर्वापि स्वयं भवेत् ।
अमिया खल मे तर्कः स एव पुरुषोत्तमः ॥ १२ ॥
 
आ,
 
यत्र यत्र वयं जातास्तत्र तत्र त्रिलोकधृत् ।
 
दानवानां वधार्थाय वर्तते मधुसूदनः ॥ १३ ॥
 
भवतु । विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति । तस्माद् युद्धं
करिष्यामि । (प्रकाशम्) भो नन्दगोपपुत्र ! पुनरपि जातो मे दर्पः ।
३ दामोदरः - हम् । तिष्ठ तिष्ठेदानीम् ।
 
9.
 
किं गर्जसे भुजगतो मम गोवृषेन्द्र !
पातप्रवृद्ध इव वार्षिककालमेघः ।
एहि क्षिपामि धरणीतलमभ्युपेहि
वज्राहतस्तट इवाञ्जनपर्वतस्य ॥ १४ ॥
 
( सौवर्त्त ? संवृत्ती )
 
३२