This page has not been fully proofread.

-iii. 10.6]
 
तृतीयोऽङ्कः ।
 
५४१
 
हुङ्कारशब्देन ममेह घोषे स्रवन्ति गर्भा वनिताजनस्य ।
खुराग्रपातालखितार्धचन्द्रा प्रकम्पते सद्मकानना भूः ॥ ६ ॥
कनुखलु गतो नन्दगोपपुत्रः । भो नन्दगोपपुत्र ! कासि ।
दामोदर :- भो गोवृषाधम ! इत इत: । एप स्थितोऽस्मि ।
३ अरिष्टर्षभः- ( दृष्ट्वा ) अहो,
 
सारवान् खल्वयं बालो यो मां दृष्ट्वा महाबलम् ।
उग्ररूपं महानादं नैव भीतो न विस्मितः ॥ ७ ॥
दामोदर:--
 
किमेतद् भो ! भयं नाम भवतोऽद्य मया श्रुतम् ।
भीतानामभयं दातुं समुत्पन्नो महीतले ॥ ८ ॥
 
अरिष्टर्षभ: - भो ! बालस्त्वम् । अतः खलु भयं न जानासि ।
दामोदरः - भो गोवृपाधम ! किं बाल इति मां प्रधर्षयसि ।
किं दृष्टः कृष्णसर्पेण बालेन न निहन्यते ।
बालेन हि पुरा क्रौञ्चः स्कन्देन निधनं गतः ॥ ९ ॥
 
भवितव्यम् ।
 
अपीदं शृणु मूर्ख ! त्वं कठिनोपलसञ्चयः ।
 
किं न पल्लवमात्रेण शैलो वज्रेण पातितः ॥ १० ॥
अरिष्टर्षभः- भो नन्दगोपपुत्र ! किंव्यवसितम् ।
दामोदरः - त्वां निधनमुपनेतुम् ।
 
३ अरिष्टर्षभः- समर्थो भवान् ।
 
दामोदर:-
 
रः - कः संशयः ।
 
अरिष्टर्षभः- तेन हि गृह्यतां स्वजातिसदृशं प्रहरणम् ।
६ दामोदरः - प्रहरणमिति । हं भोः !
 
३१