This page has not been fully proofread.

-iii.3.15]
 
तृतीयोऽङ्कः ।
 
एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा
गोपाङ्गनाः कनकचम्पकपुष्पगौराः ।
नानाविरागवसना मधुरप्रलापाः
 
क्रीडन्ति वन्यकुसुमाकुल केशहम्ताः ॥ २ ॥
 
सङ्कर्षण:- एते गोपदारकाः समागताः ।
 
रक्तैर्वेसुकडिण्डिमैः प्रमुदिताः केचिन्नदन्तः स्थिताः
केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम् ।
घोषे जागरिमा (?) गुरुप्रमुदिता हुम्भारशब्दाकुले
 
५३९
 
वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः ॥ ३ ॥
वृद्धगोपालक:- आम भट्टा ! पव्वा पण्णद्धा आअदा । [ आम भर्तः !
पर्वे सन्नद्धा आगताः । ]
 
३ दामकः - जेदु भट्टा । [ जयतु भर्ता । ]
 
सङ्कर्षण. - दामक ! सर्वे गोपदारकाः समागताः ।
 
दामक:- आम भट्टा ! कवे पण्णद्धा आअदा । [ आम भर्तः ! सर्वे
६ सन्नद्धा आगताः । ]
 
दामोदरः - घोषसुन्दरि ! वनमाले ! चन्द्ररेखे ! मृगाक्षि ! घोषवा-
सस्यानुरूपोऽयं हल्ली सकनृत्तबन्ध उपयुज्यताम् ।
 
९ सर्वा: - जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ]
सङ्कर्षण:- दामक ! मेघनाद ! वाद्यन्तामातोद्यानि ।
उभौ - भट्टा ! तह । [ भर्त: ! तथा । ]
 
१२ वृद्धगोपालकः- भट्टा ! तुम्हे हळीसअं पकीळन्ति । अहं एत्थ
किं करोमि । [ भर्तः ! यूयं हल्लीसकं प्रक्रीडथ । अहमत्र किं करोमि । ]
दामोदरः - प्रेक्षको भवान् ननु ।
 
१५ वृद्धगोपालकः - भट्टा ! तह । [ भर्तः ! तथा । ]
 
२९