This page has not been fully proofread.

५३८
 
१०२
 
बालचरित
 
[ iii. 100
 
दामक:- जं मादुलो आणवेदि । [ यद् मातुल आज्ञापयति । ]
 
(निष्क्रान्तौ । )
 
प्रवेशकः ।
 
वृद्धगोपालक:-
 
( प्रविश्य )
 
अणुदिअमत्ते पुय्येपणमह पव्वादळेण षीषेण ।
 
णिश्वं जगमादूणं गोणाणं अमिदपुण्गाणं ॥ १ ॥
 
अहो अम्हाणं पक्कणाणं षमिद्धी । आडोवषज्जाओ पडहरूववेसाओ
वाहळिदुं गच्छामो । अम्हाअं गोवकण्णआओ ! घोपपुन्दळि !
३ वणमाळे ! चन्दळेहे ! मिअक्खि ! आअच्छह आअच्छह षिग्धं ।
[ अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शर्पिण ।
 
नित्यं जगन्मातॄणां गवाममृतपूर्णानाम् ॥ १ ॥
 
अहो अस्माकं पक्कणानां समृद्धि: । आटोपसजाः पटहरूपवेषा व्याहर्तुं
गच्छामः । अस्माकं गोपकन्यकाः ! घोपसुन्दरि ! वनमाले ! चन्द्ररेखे !
३ मृगाक्षि ! आगच्छतागच्छत शीघ्रम् । ]
 
( ततः प्रविशन्ति सर्वाः । )
 
सर्वाः - मादुळ ! वन्दामा । [ मातुल ! वन्दामहे । ]
 
६ वृद्धगोपालकः - दाळिआ ! एषो भट्टा दामोदळो गोक्खीरपण्डरेण
भट्टिणा षङ्कळिषणेण पह गोवाळएहि अ परिवुदो गुहाणिक्खित्ता
पिंहो विअ इदो एव आअच्छदि । [ दारिकाः ! एप भर्ता दामो-
९ दरः गोक्षीरपाण्डरेण भर्त्रा सङ्कर्षणेन सह गोपालकैश्च परिवृतः गुहा-
निक्षिप्तः सिंह इवेत एवागच्छति । ]
 
( ततः प्रविशति गोपजनपरिवृतो दामोदरः सङ्कर्षणश्च । )
१२ दामोदरः - ( सविस्मयम् ) अहो प्रकृत्या रमणीयानां गोपकन्यकानां
वेषणविशेषः ।
 
२८