This page has not been fully proofread.

-ii. 15.10]
 
६ राजा - किं प्रसूतम् ।
 
द्वितीयोऽङ्कः ।
 
५३१
 
वसुदेवः - (आत्मगतम् ) मयापि नामानृतं वक्तव्यं भविष्यति ।
अथवा कुमाररक्षणार्थमनृतमपि सत्यं पश्यामि । किमिदानी
९ करिष्ये । भवतु, दृष्टम् । ( प्रकाशम् ) दारिका प्रसूता तथा ।
-दारिका वा कुमारो वा हन्तव्यः सर्वथा मया ।
दैवं पुरुपकारेण वञ्चयिष्याम्यहं ध्रुवम् ॥ १४ ॥
( प्रविश्य )
 
राजा-
 
प्रतिहारी- जेदु भट्टा । अम्हाअं भट्टिणी विष्णवेदि-दारिअत्ति
३ बाळेत्ति अ करीअदु किळ : महाराष्ण अणुक्कोसो। [ जयतु भर्ता ।
अस्माकं भट्टिनी विज्ञापयति-दारिकेति बालेति च क्रियतां किल महा-
राजेनानुक्रोश: । ]
 
६ वसुदेव:- शौरसेनीमातः ! क्रियतां तपस्विन्या देवक्या वाक्यम् ।
दारिकासु स्त्रीणामधिकतरः स्नेहो भवति ।
 
राजा - किं भवान् स्मरति समयम् ।
 
मधूकस्य ऋषेः शापं श्रुत्वा मे समयस्तदा ।
 
देवक्या धारितान् गर्भान् दास्यामीति त्वया कृतः ॥ १५ ॥
वसुदेवः - समय इति । एष न व्याहरामि ।
 
प्रतिहारी- भट्टा ! किंत्ति अम्हाअं भट्टिणीए णिवेदिदवं । [ भर्तः !
३ किमित्यस्माकं भट्टिन्यै निवेदयितव्यम् । ]
 
राजा - यशोधरे ! उच्यतां देवक्याः न युक्तमिदानीं निर्बन्धमभि-
धातुम् । अन्यन् प्रियतरं करिष्यामीति ।
 
६ प्रतिहारी - जं भट्टा आणवेदि । [ यद् भर्ताज्ञापयति । ]
 
राजा - यशोधरे ! एवं क्रियताम् ।
 
प्रतिहारी - सुहं पविसदु किळ भट्टा । [ सुखं प्रविशतु किल भर्ता । ]
९ वसुदेवः - विविक्तमिच्छता मयापि नाम परापत्यं निधनमुपनेतव्यं
भवति । किन्नुखलु कुमारमेवानीय प्रयच्छामि । अथवा,
 
२१