This page has not been fully proofread.

५३०
 
बालचरिते
 
[ii. 11. ' -
 
काञ्चुकीयः- यदाज्ञापयति महाराज: । (निष्क्रम्य प्रविश्य) जयतु
 
३ महाराजः । प्रसूतवती किल देवकी ।
 
राजा-
 
-किं प्रसूतम् 1
 
काम्चुकीयः- दारिका प्रसूता ।
 
६ राजा - मा तावत् । एतानि महानिमित्तानि दारिकाप्रसूतिमात्रेण
उत्पद्यन्ते ।
 
काञ्चुकीयः- प्रसीदतु महाराजः । अनृतं नाभिहितपूर्वं मया । भवतो
९ भृत्यवर्ग परिवृतायाः धात्र्या हस्ते दृष्टा सा ।
 
राजा - अथवा ब्राह्मणवचनमनृतमपि सत्यं पश्यामि ।
वसुदेवस्तावदाहूयताम् ।
 
१२ काञ्चुकीयः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
गच्छ,
 
राजा - धर्मशीलः सत्यवादी वसुदेवः । अथ तु मम समीपेऽनृतं न
ब्रवीति । भवतु, श्रोष्यामस्तावत् ।
 
वसुदेव:-
 
( ततः प्रविशति वमुदेवः । )
 
पणां सुतानां समुपेत्य नाशं वहन्निदं शोककृशं शरीरम् ।
मानोsana राज्ञा गच्छाम्यहं भृत्य इवास्वतन्त्रः ॥ १२ ॥
 
भोः ! एवंविधा लोकवृत्तिः ।
 
स्मरतापि भयं राजा भयं न स्मरतापि वा ।
 
उभाभ्यामपि गन्तव्यो भयादप्यभयादपि ॥ १३ ॥
 
( उपसृत्य ) शौरसेनीमातः ! आस्यते ।
 
राजा - यादवीमातः ! आस्यताम् ।
 
३ वसुदेवः-बाढम् । (उपविश्य) शौरसेनीमातः ! किमर्थं वयमाहूताः ।
 
राजा - यादवीमातः ! प्रसूतवती किल देवकी ।
 
वसुदेवः - अथकिम्, प्रसूतवती ।
 
२०