This page has not been fully proofread.

—ii. 11. ]
 
६ राजा-
 
द्वितीयोऽङ्कः ।
 
५२९
 
प्रतिहारी- भट्टा ! जसोधरा खु अहं । [ भर्तः ! यशोधरा खल्वहम् । ]
- यशोधरे ! किं त्वया मातङ्गीजनप्रवेशो न दृष्टः ।
प्रतिहारी- हं मादङ्गिजणत्ति । णिचं भट्टिपादमूळे वत्तमाणम्स व
जणम्स इह पवेसो दुळहो, किं उण मादङ्गिजणम्स । [ हं
९ मातीजन इति । नित्यं भर्तृपादमूले वर्तमानस्यैव जनस्येह प्रवेशो
दुर्लभः, किं पुनर्मातङ्गीजनस्य । ]
 
राजा - किं स्वप्नो नु मयानुभूतः । यशोधरे ! गच्छ । बालाकि :
१२ काञ्चुकीयः प्रवेश्यताम् ।
 
प्रतिहारी - जं भट्टा आणवेदि । (निष्कान्ता । ) [ यद् भर्ताज्ञापयति । ]
( ततः प्रविशति काञ्चुकीयः । )
 
१५ काञ्चुकीयः- जयतु महाराजः ।
 
राजा - आर्य बालाके! प्रष्टव्यौ सांवत्सरिकपुरोहितौ — अद्य
रात्रौ वातोद्धामभूमिकम्पोल्कापाता दैवतप्रतिमाश्च प्रतिभासिताः
१८ किमर्थमिति ।
 
काञ्चुकीयः- महाराज ! सांवत्सरिकपुरोहितौ विज्ञापयतः ।
राजा - किमिति ।
 
२१ काञ्चुकीयः - श्रूयताम् ।
 
राजा-
 
इति ।
 
भूतं नभस्तलनिवासि नरेन्द्र ! नित्यं
कार्यान्तरेण नरलोकमिह प्रपन्नम् ।
 
आकाश दुन्दुभिरवैः समहीप्रकम्पै-
 
स्तस्यैष जन्मनि विशेषकरो विकारः ॥ १० ॥
 
कस्मिञ्जाते सशैलेन्द्रा कम्पितेयं वसुन्धरा ।
ज्ञायतां कस्य पुत्रोऽयं किं वा जन्मप्रयोजनम् ॥ ११ ॥
 
१९