This page has not been fully proofread.

५२०
 
[ i. 19.64
 
वसुदेवः - हन्त भोः ! न शक्यं लोकस्याधिष्ठानभूतं कृतान्तं वन-
यितुम् । वयम्य ! काष्ठभूतं कलेवरं त्यज्यताम् ।
 
६३ नन्दगोपः - ण पक्कुणोमि । भट्टा ! ण षक्कुणोमि । [ न शक्नोमि
भर्त: ! न शक्नोमि । ]
 
वसुदेवः - ईदृशो लोकधर्मः । त्यज्यताम् ।
 
६६ नन्दगोपः-जं भट्टा आणवेदि । दाळिए ! दाळिए ! । (इति रोदिति । )
[ यद् भर्ताज्ञापयति । दारिके ! दारिके ! । ]
 
वः - वयम्य ! अलमलं रुदितेन । उतिष्ठोत्तिष्ठ ।
 
वसुदेव:-
 
६ ९ नन्दगोप:-( तथा कृत्वोपगम्य ) जेदु भट्टा । इमिणा दाषजणेण किं
कत्तव्वं । [ जयतु भर्ता । अनेन दासजनेन किं कर्तव्यम् । ]
 
वसुदेवः – वयस्य ! ननु त्वमपि जानासि दुरात्मना कंसेन मम
७२ पट् पुत्रा निधनमुपानीता इति ।
 
नन्दगोप : - जाणामि भट्टा ! जागामि । [ जानामि भर्तः ! जानामि । ]
वसुदेवः- तत् सप्तमोऽयं दीर्घायुः । नास्ति मम पुत्रेषु भाग्यम् ।
७५ तव भाग्याज्जीवितुं गृह्यताम् ।
 
नन्दगोपः- भाआमि भट्टा ! भाआमि । जदि कंषो ळाआ पुणादि-
वपुदेवष्प दाळओ गन्दगोवष्ण हत्थे णाषो णिक्खित्तो त्ति, किं
७८ बहुणा, गर्द एव मे षीषं । [ बिभेमि भर्तः ! बिभेमि । यदि कंसो
राजा शृणोति - वसुदेवस्य दारको नन्दगोपस्य हस्ते न्यामो निक्षिप्त
इति, किं बहुना, गतमेव मे शीर्षम् । ]
 
८१ वसुदेवः-( आत्मगतम् ) हन्त विपन्नं कार्यम् । उक्तज्ञाः खलु
नृशंसाः । तदेवं कथयामि । ( प्रकाशम् ) वयस्य नन्दगोप !
 
यद्यमि भवतः किञ्चिन्मया पूर्वकृतं भवेत् ।
 
तस्य प्रत्युपकारस्य कालस्ते समुपागतः ॥ २० ॥
 
१०