2025-12-29 10:01:03 by ambuda-bot
This page has not been fully proofread.
५१६
बालचरिते
[1.17.-
तमसा संवृते लोके भम मार्गमपश्यतः ।
अपक्रमण हेतोस्तु कुमारेण प्रभा कृता ॥ १७ ॥
एष मार्गः । यावदपक्रामामि । अये इयं भगवती यमुना काल-
वर्षसम्पूर्णा स्थिता । अहो व्यर्थो मे परिश्रमः । किमिदानीं
३ करिष्ये । भवतु, दृष्टम् ।
इमां नदीं ग्राहभुजङ्गसङ्कुलां
महोर्मिमालां मनसापि दुस्तराम् ।
भुवेनाशु गतार्थविक्लवो
हामि सिद्धि यदि दैवतं स्थितम् ॥ १८ ॥
( तथा कृत्वा सविस्मयम् ) हन्त द्विधा छिन्नं जलम्, इतः स्थितम्,
इतः प्रधावति । दत्तो मे भगवत्या मार्गः । यावदपक्रामामि ।
३ (अवतीर्य) निष्क्रान्तोऽस्मि यमुनायाः । अये हुङ्कारशब्द इव
श्रूयते । व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः । आ, अत्र च
समीप घोपे मम वयस्यो नन्दगोपः प्रतिवसति । स खलु मया
६ कंसाज्ञया निगलितः कशाभिहतश्च । यावत् प्रविशामि । अथवा
रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति ।
तस्मादिह न्यग्रोधपादपस्याधस्तान् प्रभातवेलां रजन्याः प्रतिपाल-
९ यामि । भो भो न्यग्रोधदेवताः ! यद्ययं बालो लोकहितार्थं कंस -
वधार्थं वृष्णिकुले प्रसूतश्चेद्, घोषात् कश्चिदिहागच्छतु । न, न,
मम वयस्यो नन्दगोप एवागच्छतु ।
१२
( ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः । )
नन्दगोपः - ( सशोकम् ) दाळिए ! दाळिए ! किं दाणि णो गेहळा
पळमि तदो णो उज्झिअ णं गच्छषि । षम्पदि हि महिषपद -
१५ सम्पादषदिषं अहो बळिअं अन्धआळं ।
१. लोकहितार्थः ।