This page has not been fully proofread.

i. 16.4 ]
 
प्रथमोऽङ्कः ।
 
विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः ।
 
गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः ॥ १२ ॥
 
देवकि ! प्रविश त्वमभ्यन्तरम् ।
 
५१५
 
देवकी - एसा गच्छामि मन्दमाआ । (निष्क्रान्ता । ) ( एषा गच्छामि
 
३ मन्दभागा । ]
 
वसुदेव:- एषा देवकी,
 
हृदयेनेह तत्राद्वैर्द्विधाभूतेव गच्छति ।
 
यथा नभसि तांये च चन्द्रलेखा द्विधाकृता ॥ १३ ॥
हन्त प्रविष्टा देवकी । यावदहमपि नगरद्वारं संश्रयामि । एष भोः,
प्रथमसुतविनाशजातमन्युर्नृपतिभयाकुलितः प्रगृह्य बालम् ।
त्वरिततरमिह प्रयामि मार्गे गिरिमिव मन्दरमुद्वहन्भुजाभ्याम्॥१४॥
( परिक्रम्य ) इदं नगरद्वारम् । यावत् प्रविशामि । ( प्रविश्य) अये
प्रसुप्तो मधुरायां सर्वो जनः । यावदपक्रामामि । ( परिक्रम्य )
३ निष्क्रान्तोऽस्मि मधुरायाः । अहो बलवांश्चायमन्धकारः । सम्प्रति
हि,
 
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुपसेवेव दृष्टिर्निष्फलतां गता ॥ १५ ॥
 
अहो तमसः प्रभुत्वम् ।
 
अप्रकाशा इव दिशो घनीभूता इव द्रुमाः ।
 
सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥ १६ ।
 
नाहं गन्तुं समर्थः । अये दीपिकालोकः । किन्नुखलु दुरात्मा कंसो
ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत् ।
३ भवत्वहमस्य दर्पप्रशमनं करोमि । ( खङ्गमुत्कोशयति । निवृत्यावलोक्य)
अये न कश्चिद् दृश्यते । आ,