This page has not been fully proofread.

५१४
 
बालचरिते
 
अगणित परिखेदा याति षण्णां सुताना-
मपचयगमनार्थं सप्तमं रक्षमागा ।
बहुगुणकृतलोभा जन्मकाले निमित्तैः
 
[ i. 10. -
 
सुत इति कृतसंज्ञं कंस मृत्युं वहन्ती ॥ १० ॥
देवकी - ( उपसृत्य ) जेदु अय्यउत्तो । [ जयत्वार्यपुत्रः । ]
वसुदेवः- देवकि ! अर्धरात्रः खलु वर्तते । प्रसुप्तो मधुरायां सर्वो
३ जनः । तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वा -
पक्रामामि ।
 
देवकी-कहिं अय्यउत्तो इमं णइस्सदि । [ वार्यपुत्र इमं नेष्यति । ]
६ वसुदेवः - देवकि ! सत्यं ब्रवीषि । अहमपि न जाने । किन्तु,
एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः । तत् कनु
खल्वयमायुष्मान् नेतत्र्यो भविष्यति । अथवा यत्र दैवं विधा-
९ स्यति, तत्र बालं गृहीत्वापक्रामामि ।
 
देवकी - अय्यउत्त ! इच्छामि दाव णं सुदिट्ठे कत्तुं । [ आर्यपुत्र !
इच्छामि तावदेनं सुदृष्टं कर्तुम् । ]
 
१२ वसुदेवः - अयि अतिपुत्रवत्सले !
 
किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले ।
 
त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति ॥ ११ ॥
 
देवकी - सव्वा ण भविस्सदि । [ सर्वथा न भविष्यति । ]
वसुदेवः - यद् भवत्याभिहितं तत् सर्वदैवतैरभिहितं भवतु ।
 
३ आनय ।
 
देवकी - गह्णदु अय्यउत्तो । [ गृह्णात्वार्यपुत्रः । ]
वसुदेवः - ( गृहीत्वा ) अहो गुरुत्वं बालस्य । साधु,
 
१. अर्धरात्रं ।