2025-12-29 11:18:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>

भोः !

<verse lang="sa">क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमेऽन्तरिक्षे ।
अहं हि वेदाध्ययनान्तरेषु तन्त्रीश्च वैराणि च घट्टयामि ॥ ४ ॥</verse>

अपिच,

<verse lang="sa">भक्तिः परा मम पितामहभाषितेषु
सर्वाणि मे बहुमतानि तपोवनानि ।
सत्यं ब्रवीमि करजाग्रहता च वीणा
वैराणि भीमकठिनाः कलहाः प्रिया मे ॥ ५ ॥</verse>

तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थं
वृष्णिकुले प्रसूतं नारायणं द्रष्टुमिहागतोऽस्मि । अये, इयमत्र-
भवती देवकी । मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसु-
देवेन सह शनैः स्वगृहान्निष्क्रामति । यैषा,

<verse lang="sa">लोकानामभयकरं गुरुं सुराणां
दैत्यानां निधनकरं रथाङ्गपाणिम् ।
शोकार्ता शशिवदना निशि प्रशान्ता
बाहुभ्यां गिरिमिव मन्दरं वहन्ती ॥ ६ ॥</verse>

एष एप भगवान् नारायणः,

<verse lang="sa">अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथोऽसुरवीर्यहन्ता ।
त्रिलोककेतुर्जगत<ref>१</ref>श्च कर्ता भर्ता जनानां पुरुषः पुराणः ॥ ७ ॥</verse>

हन्तैतदुत्पन्नं कलहस्य मूलम् । यावदहमपि भगवन्तं नारायणं
प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि । नमो भगवते त्रैलोक्य-
कारणाय ।

<footnote mark="१" lang="sa">जगतां च कर्ता ।</footnote>
</page>