2025-12-29 11:17:36 by akprasad
This page has been fully proofread once and needs a second look.
<p lang="sa">भोः !
बालचरिते
[ i. 3. —
<verse lang="sa">क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमेऽन्तरिक्षे ।
अहं हि वेदाध्ययनान्तरेषु तन्त्रीश्च वैराणि च घट्टयामि ॥ ४ ॥
<p lang="sa">अपिच,
<verse lang="sa">भक्तिः परा मम पितामहभाषितेषु
सर्वाणि मे बहुमतानि तपोवनानि ।
सत्यं ब्रवीमि करजाग्रहता च वीणा
वैराणि भीमकठिनाः कलहाः प्रिया मे ॥ ५ ॥
<p lang="sa">तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थं
वृष्णिकु
३
भवती देवकी । मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसु-
देवेन सह शनैः स्वगृहान्निष्क्रामति । यैषा,
<verse lang="sa">लोकानामभयकरं गुरुं सुराणां
दैत्यानां निधनकरं रथाङ्गपाणिम् ।
शोकार्ता शशिवदना निशि प्रशान्ता
बाहुभ्यां गिरिमिव मन्दरं वहन्ती ॥ ६ ॥
<p lang="sa">एष एप भगवान् नारायणः,
<verse lang="sa">अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथोऽसुरवीर्यहन्ता ।
त्रिलोक
<p>हन्तैतदुत्पन्नं कलहस्य मूलम् । यावदहमपि भगवन्तं नारायणं
प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि । नमो भगवते त्रैलोक्य-
३
कारणाय ।
१.
<footnote lang="sa">जगतां च कर्ता ।
</page>