This page has not been fully proofread.

५१२
 
भोः !
 
बालचरिते
 
[ i. 3. —
 
क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमेऽन्तरिक्षे ।
अहं हि वेदाध्ययनान्तरेषु तन्त्रीश्च वैराणि च घट्टयामि ॥ ४ ॥
 
अपिच,
 
भक्तिः परा मम पितामहभाषितेषु
 
सर्वाणि मे बहुमतानि तपोवनानि ।
 
सत्यं ब्रवीमि करजाग्रहता च वीणा
 
वैराणि भीमकठिनाः कलहाः प्रिया मे ॥ ५ ॥
 
तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थं
वृष्णिकुलं प्रसूतं नारायणं द्रष्टुमिहागतोऽस्मि । अये, इयमत्र-
३ भवती देवकी । मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसु-
देवेन सह शनैः स्वगृहान्निष्क्रामति । यैषा,
 
लोकानामभयकरं गुरुं सुराणां
 
दैत्यानां निधनकरं रथाङ्गपाणिम् ।
शोकार्ता शशिवदना निशि प्रशान्ता
बाहुभ्यां गिरिमिव मन्दरं वहन्ती ॥ ६ ॥
 
एष एप भगवान् नारायणः,
 
अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथोऽसुरवीर्यहन्ता ।
त्रिलोक केतुर्जगतश्च कर्ता भर्ता जनानां पुरुषः पुराणः ॥ ७ ॥
हन्तैतदुत्पन्नं कलहस्य मूलम् । यावदहमपि भगवन्तं नारायणं
प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि । नमो भगवते त्रैलोक्य-
३ कारणाय ।
 
१. जगतां च कर्ता ।