2025-12-29 11:10:24 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle lang="sa">॥ श्रीः ॥
<subtitle>भासनाटकचक्रे
<title lang="sa">बालचरितम् ।
<p lang="sa">( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
<p>सूत्रधार :-</p>
<verse n="1" lang="sa">शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण-
स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः ।
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ १॥
<p>एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्य
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
<p lang="sa">( नेपथ्ये )
<p lang="sa">अहं गगनसञ्चारी ।
<p lang="sa">सूत्रधारः - भवतु, विज्ञातम् ।
<verse n="2" lang="sa">पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् ।
द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ॥ २ ॥
<p>( निष्क्रान्त: : )
<heading>स्थापना
३ नारदः-
<p>( ततः प्रविशति नारदः । )
<p lang="sa">नारदः-</p>
<verse n="3" lang="sa">अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः ।
ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः ॥ ३
१
</page>