This page has not been fully proofread.

सूत्रधार :-
 
॥ श्रीः ॥
भासनाटकचक्रे
 
बालचरितम् ।
 
( नान्यन्ते ततः प्रविशति सूत्रधारः । )
 
शङ्खक्षीवपुः पुरा कृतयुगे नाम्ना तु नारायण-
 
यांत्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः ।
 
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
 
नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ १॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यप्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
 
( नेपथ्ये )
 
अहं गगनसञ्चारी ।
 
सूत्रधारः - भवतु, विज्ञातम् ।
 
पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् ।
द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ॥ २ ॥
( निष्क्रान्त: : )
स्थापना
 
३ नारदः-
 
( ततः प्रविशति नारदः । )
 
अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः ।
ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः ॥ ३ ।