2026-01-19 23:33:38 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।
विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥</verse>

<speaker>राजा - </speaker>हन्त ! कृतं मे हृदयानुज्ञातम् । परित्यजन्तीव मे प्राणाः ।
इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत्कर्णमग्रतः
कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काक-
पक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः ।
उर्वश्यादयोऽप्सरसो मामभिगताः । इमे महार्णवा मूर्तिमन्तः । एता
गंगाप्रभृतयो महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही
विमानः कालेन प्रेषितः । अयमयमागच्छामि । <speaker>( स्वर्गं गतः । )</speaker>

<speaker>( यवनिकास्तरणं करोति । )</speaker>

<speaker>धृतराष्ट्रः-</speaker>

<verse n="66ab" lang="sa">याम्येष सज्जनधनानि तपोवनानि
पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।</verse>

<speaker>अश्वत्थामा--</speaker>

<pverse n="66c" lang="sa">यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः</pverse>

<stage>( भरतवाक्यम् । )</stage>

<pverse n="66d" lang="sa"><speaker>बलदेवः - </speaker>गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥</pverse>

<stage>(निष्क्रान्ताः सर्वे । )</stage>

<trailer lang="sa">ऊरुभङ्गं नाम नाटकं समाप्तम् ॥</trailer>
</page>