2025-12-29 10:01:02 by ambuda-bot
This page has not been fully proofread.
५०८
ऊरुभङ्गे
पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।
विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५ ॥
[ i 65.-
राजा - हन्त ! कृतं मे हृदयानुज्ञातम् । परित्यजन्तीव मे प्राणाः ।
इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः । एतत्कर्णमग्रतः
३ कृत्वा समुत्थितं भ्रातृशतम् । अयमप्यैरावतशिरोविषक्तः काक-
पक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः ।
उर्वश्यादयोऽप्सरसो मामभिगताः । इमे महार्णवा मूर्तिमन्तः । एता
६ गंगाप्रभृतयो महानद्यः । एप सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही
विमानः कालेन प्रेषितः । अयमयमागच्छामि । ( स्वर्गं गतः । )
( यवनिकास्तरणं करोति । )
९ धृतराष्ट्रः-
याम्येष सज्जनधनानि तपोवनानि
पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।
अश्वत्थामा--
यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः
( भरतवाक्यम् । )
बलदेवः - गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६ ॥
(निष्क्रान्ताः सर्वे । )
ऊरुभङ्गं नाम नाटकं समाप्तम् ॥
२०